001 गान्धार्युवाच 001a एष माधव पुत्रो मे विकर्णः प्राज्ञसम्मतः 001c भूमौ विनिहतः शेते भीमेन शतधा कृतः 002a गजमध्यगतः शेते विकर्णो मधुसूदन 002c नीलमेघपरिक्षिप्तः शरदीव दिवाकरः 003a अस्य चापग्रहेणैष पाणिः कृतकिणो महान् 003c कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान् 004a अस्य भार्यामिषप्रेप्सून्गृध्रानेतांस्तपस्विनी 004c वारयत्यनिशं बाला न च शक्नोति माधव 005a युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ 005c सुखोचितः सुखार्हश्च शेते पांसुषु माधव 006a कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे 006c अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम् 007a एष सङ्ग्रामशूरेण प्रतिज्ञां पालयिष्यता 007c दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे 008a तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् 008c विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः 009a शूरस्य हि रणे कृष्ण यस्याननमथेदृशम् 009c स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः 010a यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते 010c स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित् 011a चित्रसेनं हतं भूमौ शयानं मधुसूदन 011c धार्तराष्ट्रमिमं पश्य प्रतिमानं दनुष्मताम् 012a तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः 012c क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते 013a स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् 013c चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे 014a युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः 014c विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव 015a शरसङ्कृत्तवर्माणं वीरं विशसने हतम् 015c परिवार्यासते गृध्राः परिविंशा विविंशतिम् 016a प्रविश्य समरे वीरः पाण्डवानामनीकिनीम् 016c आविश्य शयने शेते पुनः सत्पुरुषोचितम् 017a स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् 017c अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः 018a यं स्म तं पर्युपासन्ते वसुं वासवयोषितः 018c क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः 019a हन्तारं वीरसेनानां शूरं समितिशोभनम् 019c निबर्हणममित्राणां दुःसहं विषहेत कः 020a दुःसहस्यैतदाभाति शरीरं संवृतं शरैः 020c गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः 021a शातकौम्भ्या स्रजा भाति कवचेन च भास्वता 021c अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः