001 गान्धार्युवाच 001a पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान् 001c गदया भीमसेनेन भूयिष्ठं निहतान्रणे 002a इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः 002c हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः 003a प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः 003c आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुन्धराम् 004a गृध्रानुत्सारयन्त्यश्च गोमायून्वायसांस्तथा 004c शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत 005a एषान्या त्वनवद्याङ्गी करसम्मितमध्यमा 005c घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता 006a दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् 006c राजपुत्रीं महाबाहो मनो न व्युपशाम्यति 007a भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि 007c दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान् 008a मध्यमानां तु नारीणां वृद्धानां चापराजित 008c आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु 009a रथनीडानि देहांश्च हतानां गजवाजिनाम् 009c आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल 010a अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् 010c स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति 011a पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ 011c एताभिरनवद्याभिर्मया चैवाल्पमेधया 012a तदिदं धर्मराजेन यातितं नो जनार्दन 012c न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः 013a प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः 013c कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः 014a हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः 014c सारस्य इव वाशन्त्यः पतिताः पश्य माधव 015a फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् 015c अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान् 016a ईर्षूणां मम पुत्राणां वासुदेवावरोधनम् 016c मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः 017a शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसन्निभान् 017c रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् 018a शीर्षत्राणानि चैतानि पुत्राणां मे महीतले 018c पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव 019a एष दुःशासनः शेते शूरेणामित्रघातिना 019c पीतशोणितसर्वाङ्गो भीमसेनेन पातितः 020a गदया वीरघातिन्या पश्य माधव मे सुतम् 020c द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च 021a उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता 021c प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन 022a सहैव सहदेवेन नकुलेनार्जुनेन च 022c दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान् 023a ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् 023c मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय 024a निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् 024c क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः 025a न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् 025c वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् 026a तानेष रभसः क्रूरो वाक्शल्यानवधारयन् 026c उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव 027a एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ 027c निहतो भीमसेनेन सिंहेनेव महर्षभः 028a अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः 028c दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे