001 वैशम्पायन उवाच 001a ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता 001c सहसा न्यपतद्भूमौ छिन्नेव कदली वने 002a सा तु लब्ध्वा पुनः सञ्ज्ञां विक्रुश्य च पुनः पुनः 002c दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् 003a परिष्वज्य च गान्धारी कृपणं पर्यदेवयत् 003c हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया 004a सुगूढजत्रु विपुलं हारनिष्कनिषेवितम् 004c वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता 004e समीपस्थं हृषीकेशमिदं वचनमब्रवीत् 005a उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां सङ्क्षये विभो 005c मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः 005e अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे 006a इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम् 006c अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः 007a यथा न युध्यमानस्त्वं सम्प्रमुह्यसि पुत्रक 007c ध्रुवं शस्त्रजिताल्ँलोकान्प्राप्तास्यमरवद्विभो 008a इत्येवमब्रुवं पूर्वं नैनं शोचामि वै प्रभो 008c धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् 009a अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् 009c शयानं वीरशयने पश्य माधव मे सुतम् 010a योऽयं मूर्धावसिक्तानामग्रे याति परन्तपः 010c सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम् 011a ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः 011c तथा ह्यभिमुखः शेते शयने वीरसेविते 012a यं पुरा पर्युपासीना रमयन्ति महीक्षितः 012c महीतलस्थं निहतं गृध्रास्तं पर्युपासते 013a यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः 013c तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः 014a एष शेते महाबाहुर्बलवान्सत्यविक्रमः 014c सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः 015a पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् 015c निहतं भीमसेनेन गदामुद्यम्य भारत 016a अक्षौहिणीर्महाबाहुर्दश चैकां च केशव 016c अनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः 017a एष दुर्योधनः शेते महेष्वासो महारथः 017c शार्दूल इव सिंहेन भीमसेनेन पातितः 018a विदुरं ह्यवमन्यैष पितरं चैव मन्दभाक् 018c बालो वृद्धावमानेन मन्दो मृत्युवशं गतः 019a निःसपत्ना मही यस्य त्रयोदश समाः स्थिता 019c स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः 020a अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात् 020c पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम् 021a तामेवाद्य महाबाहो पश्याम्यन्यानुशासनात् 021c हीनां हस्तिगवाश्वेन किं नु जीवामि माधव 022a इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम 022c यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः 023a प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम् 023c रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम् 024a नूनमेषा पुरा बाला जीवमाने महाभुजे 024c भुजावाश्रित्य रमते सुभुजस्य मनस्विनी 025a कथं तु शतधा नेदं हृदयं मम दीर्यते 025c पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे 026a पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता 026c दुर्योधनं तु वामोरूः पाणिना परिमार्जति 027a किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी 027c तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा 028a स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा 028c पतत्युरसि वीरस्य कुरुराजस्य माधव 029a पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा 029c मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी 030a यदि चाप्यागमाः सन्ति यदि वा श्रुतयस्तथा 030c ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान्