001 वैशम्पायन उवाच 001a एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम् 001c अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा 002a पतिव्रता महाभागा समानव्रतचारिणी 002c उग्रेण तपसा युक्ता सततं सत्यवादिनी 003a वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः 003c दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् 004a ददर्श सा बुद्धिमती दूरादपि यथान्तिके 004c रणाजिरं नृवीराणामद्भुतं लोमहर्षणम् 005a अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम् 005c शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः 006a गजाश्वरथयोधानामावृतं रुधिराविलैः 006c शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः 007a गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम् 007c सृगालबडकाकोलकङ्ककाकनिषेवितम् 008a रक्षसां पुरुषादानां मोदनं कुरराकुलम् 008c अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् 009a ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः 009c पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः 010a वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् 010c कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति 011a समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः 011c अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् 012a क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबडवायसैः 012c भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः 013a रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः 013c महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे 014a अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः 014c शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि 015a श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना 015c पाञ्चालकुरुयोषाणां कृपणं तदभून्महत् 016a दुःखोपहतचित्ताभिः समन्तादनुनादितम् 016c दृष्ट्वायोधनमत्युग्रं धर्मज्ञा सुबलात्मजा 017a ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम् 017c कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमब्रवीत् 018a पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः 018c प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव 019a अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान् 019c पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन् 020a वीरसूभिर्महाबाहो हतपुत्राभिरावृतम् 020c क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम् 021a शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः 021c द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः 022a काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम् 022c अङ्गदैर्हस्तकेयूरैः स्रग्भिश्च समलङ्कृतम् 023a वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि 023c खड्गैश्च विमलैस्तीक्ष्णैः सशरैश्च शरासनैः 024a क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् 024c क्वचिदाक्रीडमानैश्च शयानैरपरैः क्वचित् 025a एतदेवंविधं वीर सम्पश्यायोधनं विभो 025c पश्यमाना च दह्यामि शोकेनाहं जनार्दन 026a पाञ्चालानां कुरूणां च विनाशं मधुसूदन 026c पञ्चानामिव भूतानां नाहं वधमचिन्तयम् 027a तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान् 027c निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः 028a जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः 028c अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति 029a अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन 029c गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान् 030a अमर्षवशमापन्नान्दुर्योधनवशे स्थितान् 030c पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव 031a शयनान्युचिताः सर्वे मृदूनि विमलानि च 031c विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते 032a बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः 032c शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः 033a ये पुरा शेरते वीराः शयनेषु यशस्विनः 033c चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते 034a तेषामाभरणान्येते गृध्रगोमायुवायसाः 034c आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः 035a चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः 035c युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति 036a सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः 036c ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः 037a अपरे पुनरालिङ्ग्य गदाः परिघबाहवः 037c शेरतेऽभिमुखाः शूरा दयिता इव योषितः 038a बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च 038c न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन 039a क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम् 039c शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः 040a एते गोमायवो भीमा निहतानां यशस्विनाम् 040c कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः 041a सर्वेष्वपररात्रेषु याननन्दन्त बन्दिनः 041c स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः 042a तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः 042c कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम् 043a रक्तोत्पलवनानीव विभान्ति रुचिराणि वै 043c मुखानि परमस्त्रीणां परिशुष्काणि केशव 044a रुदितोपरता ह्येता ध्यायन्त्यः सम्परिप्लुताः 044c कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः 045a एतान्यादित्यवर्णानि तपनीयनिभानि च 045c रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम् 046a आसामपरिपूर्णार्थं निशम्य परिदेवितम् 046c इतरेतरसङ्क्रन्दान्न विजानन्ति योषितः 047a एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च 047c विस्पन्दमाना दुःखेन वीरा जहति जीवितम् 048a बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च 048c पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः 049a शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः 049c इतरेतरसम्पृक्तैराकीर्णा भाति मेदिनी 050a विशिरस्कानथो कायान्दृष्ट्वा घोराभिनन्दिनः 050c मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च 051a शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः 051c अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः 052a बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक् 052c सन्दधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः 053a उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः 053c दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः 054a पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन 054c प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः 055a बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः 055c अगम्यकल्पा पृथिवी मांसशोणितकर्दमा 056a न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः 056c भ्रातृभिः पितृभिः पुत्रैरुपकीर्णां वसुन्धराम् 057a यूथानीव किशोरीणां सुकेशीनां जनार्दन 057c स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः 058a अतो दुःखतरं किं नु केशव प्रतिभाति मे 058c यदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः 059a नूनमाचरितं पापं मया पूर्वेषु जन्मसु 059c या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव 059e एवमार्ता विलपती ददर्श निहतं सुतम्