001 वैशम्पायन उवाच 001a एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत 001c क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता 002a तामभ्यगच्छद्राजेन्द्रो वेपमानः कृताञ्जलिः 002c युधिष्ठिर इदं चैनां मधुरं वाक्यमब्रवीत् 003a पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः 003c शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् 004a न हि मे जीवितेनार्थो न राज्येन धनेन वा 004c तादृशान्सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः 005a तमेवंवादिनं भीतं सन्निकर्षगतं तदा 005c नोवाच किञ्चिद्गान्धारी निःश्वासपरमा भृशम् 006a तस्यावनतदेहस्य पादयोर्निपतिष्यतः 006c युधिष्ठिरस्य नृपतेर्धर्मज्ञा धर्मदर्शिनी 006e अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा 007a ततः स कुनकीभूतो दर्शनीयनखो नृपः 007c तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः 008a एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत 008c गान्धारी विगतक्रोधा सान्त्वयामास मातृवत् 009a तया ते समनुज्ञाता मातरं वीरमातरम् 009c अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः 010a चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता 010c बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम् 011a ततो बाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा 011c अपश्यदेताञ्शस्त्रौघैर्बहुधा परिविक्षतान् 012a सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनः पुनः 012c अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम् 012e रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि 013 द्रौपद्युवाच 013a आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः 013c न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम् 013e किं नु राज्येन वै कार्यं विहीनायाः सुतैर्मम 014 वैशम्पायन उवाच 014a तां समाश्वासयामास पृथा पृथुललोचना 014c उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम् 015a तयैव सहिता चापि पुत्रैरनुगता पृथा 015c अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम् 016a तामुवाचाथ गान्धारी सह वध्वा यशस्विनीम् 016c मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम् 017a मन्ये लोकविनाशोऽयं कालपर्यायचोदितः 017c अवश्यभावी सम्प्राप्तः स्वभावाल्लोमहर्षणः 018a इदं तत्समनुप्राप्तं विदुरस्य वचो महत् 018c असिद्धानुनये कृष्णे यदुवाच महामतिः 019a तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः 019c मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः 020a यथैव त्वं तथैवाहं को वा माश्वासयिष्यति 020c ममैव ह्यपराधेन कुलमग्र्यं विनाशितम्