001 वैशम्पायन उवाच 001a तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् 001c गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा 002a अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः 002c आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि 003a न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः 003c शक्यः केनचिदुद्यन्तुमतो विषममाचरम् 004a सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् 004c मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मया 005a राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम् 005c भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव 006a सुयोधनमसङ्गृह्य न शक्या भूः ससागरा 006c केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया 007a तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् 007c द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् 008a तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः 008c धर्मराजाज्ञया चैव स्थिताः स्म समये तदा 009a वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत् 009c क्लेशिताश्च वने नित्यं तत एतत्कृतं मया 010a वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे 010c राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः 011 गान्धार्युवाच 011a न तस्यैष वधस्तात यत्प्रशंससि मे सुतम् 011c कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि 012a हताश्वे नकुले यत्तद्वृषसेनेन भारत 012c अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम् 013a सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् 013c क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर 014 भीमसेन उवाच 014a अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम् 014c यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन 015a रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्ब मा शुचः 015c वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ 016a हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे 016c भ्रातॄणां सम्प्रहृष्टानां त्रासः सञ्जनितो मया 017a केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते 017c क्रोधाद्यदब्रुवं चाहं तच्च मे हृदि वर्तते 018a क्षत्रधर्माच्च्युतो राज्ञि भवेयं शास्वतीः समाः 018c प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् 019a न मामर्हसि गान्धारि दोषेण परिशङ्कितुम् 019c अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु 020 गान्धार्युवाच 020a वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः 020c कस्मान्न शेषयः कञ्चिद्येनाल्पमपराधितम् 021a सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः 021c कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता 022a शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि 022c न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरः