001 वैशम्पायन उवाच 001a धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः 001c अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः 002a ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् 002c गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता 003a तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति 003c ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत 004a स गङ्गायामुपस्पृश्य पुण्यगन्धं पयः शुचि 004c तं देशमुपसम्पेदे परमर्षिर्मनोजवः 005a दिव्येन चक्षुषा पश्यन्मनसानुद्धतेन च 005c सर्वप्राणभृतां भावं स तत्र समबुध्यत 006a स स्नुषामब्रवीत्काले कल्यवादी महातपाः 006c शापकालमवाक्षिप्य शमकालमुदीरयन् 007a न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि 007c रजो निगृह्यतामेतच्छृणु चेदं वचो मम 008a उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता 008c शिवमाशास्स्व मे मातर्युध्यमानस्य शत्रुभिः 009a सा तथा याच्यमाना त्वं काले काले जयैषिणा 009c उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः 010a न चाप्यतीतां गान्धारि वाचं ते वितथामहम् 010c स्मरामि भाषमाणायास्तथा प्रणिहिता ह्यसि 011a सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि 011c कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि 012 गान्धार्युवाच 012a भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः 012c पुत्रशोकेन तु बलान्मनो विह्वलतीव मे 013a यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया 013c यथैव धृतराष्ट्रेण रक्षितव्यास्तथा मया 014a दुर्योधनापराधेन शकुनेः सौबलस्य च 014c कर्णदुःशासनाभ्यां च वृत्तोऽयं कुरुसङ्क्षयः 015a नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः 015c नकुलः सहदेवो वा नैव जातु युधिष्ठिरः 016a युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम् 016c निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम 017a यत्तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः 017c दुर्योधनं समाहूय गदायुद्धे महामनाः 018a शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे 018c अधो नाभ्यां प्रहृतवांस्तन्मे कोपमवर्धयत् 019a कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः 019c त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चन