001 वैशम्पायन उवाच 001a तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः 001c कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः 002a राजन्नधीता वेदास्ते शास्त्राणि विविधानि च 002c श्रुतानि च पुराणानि राजधर्माश्च केवलाः 003a एवं विद्वान्महाप्राज्ञ नाकार्षीर्वचनं तदा 003c पाण्डवानधिकाञ्जानन्बले शौर्ये च कौरव 004a राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते 004c देशकालविभागं च परं श्रेयः स विन्दति 005a उच्यमानं च यः श्रेयो गृह्णीते नो हिताहिते 005c आपदं समनुप्राप्य स शोचत्यनये स्थितः 006a ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत 006c राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः 007a आत्मापराधादायस्तस्तत्किं भीमं जिघांससि 007c तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् 008a यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्सभाम् 008c स हतो भीमसेनेन वैरं प्रतिचिकीर्षता 009a आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः 009c यदनागसि पाण्डूनां परित्यागः परन्तप 010a एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप 010c उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः 011a एवमेतन्महाबाहो यथा वदसि माधव 011c पुत्रस्नेहस्तु धर्मात्मन्धैर्यान्मां समचालयत् 012a दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यविक्रमः 012c त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम 013a इदानीं त्वहमेकाग्रो गतमन्युर्गतज्वरः 013c मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि केशव 014a हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च 014c पाण्डुपुत्रेषु मे शर्म प्रीतिश्चाप्यवतिष्ठते 015a ततः स भीमं च धनञ्जयं च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ 015c पस्पर्श गात्रैः प्ररुदन्सुगात्रानाश्वास्य कल्याणमुवाच चैनान्