001 वैशम्पायन उवाच 001a हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः 001c शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात् 002a सोऽभ्ययात्पुत्रशोकार्तः पुत्रशोकपरिप्लुतम् 002c शोचमानो महाराज भ्रातृभिः सहितस्तदा 003a अन्वीयमानो वीरेण दाशार्हेण महात्मना 003c युयुधानेन च तथा तथैव च युयुत्सुना 004a तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता 004c सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः 005a स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम 005c कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह 006a ताभिः परिवृतो राजा रुदतीभिः सहस्रशः 006c ऊर्ध्वबाहुभिरार्ताभिर्ब्रुवतीभिः प्रियाप्रिये 007a क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता 007c यदावधीत्पितॄन्भ्रातॄन्गुरून्पुत्रान्सखीनपि 008a घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् 008c मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम् 009a किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः 009c अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत 010a अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव 010c ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः 011a ततोऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः 011c न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः 012a तमात्मजान्तकरणं पिता पुत्रवधार्दितः 012c अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे 013a धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत 013c दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः 014a स कोपपावकस्तस्य शोकवायुसमीरितः 014c भीमसेनमयं दावं दिधक्षुरिव दृश्यते 015a तस्य सङ्कल्पमाज्ञाय भीमं प्रत्यशुभं हरिः 015c भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम् 016a प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः 016c संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः 017a तं तु गृह्यैव पाणिभ्यां भीमसेनमयस्मयम् 017c बभञ्ज बलवान्राजा मन्यमानो वृकोदरम् 018a नागायुतबलप्राणः स राजा भीममायसम् 018c भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् 019a ततः पपात मेदिन्यां तथैव रुधिरोक्षितः 019c प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः 020a पर्यगृह्णत तं विद्वान्सूतो गावल्गणिस्तदा 020c मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव 021a स तु कोपं समुत्सृज्य गतमन्युर्महामनाः 021c हा हा भीमेति चुक्रोश भूयः शोकसमन्वितः 022a तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् 022c वासुदेवो वरः पुंसामिदं वचनमब्रवीत् 023a मा शुचो धृतराष्ट्र त्वं नैष भीमस्त्वया हतः 023c आयसी प्रतिमा ह्येषा त्वया राजन्निपातिता 024a त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ 024c मयापकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः 025a न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन 025c कः सहेत महाबाहो बाह्वोर्निग्रहणं नरः 026a यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते 026c एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन 027a तस्मात्पुत्रेण या सा ते प्रतिमा कारितायसी 027c भीमस्य सेयं कौरव्य तवैवोपहृता मया 028a पुत्रशोकाभिसन्तापाद्धर्मादपहृतं मनः 028c तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि 029a न च ते तत्क्षमं राजन्हन्यास्त्वं यद्वृकोदरम् 029c न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन 030a तस्माद्यत्कृतमस्माभिर्मन्यमानैः क्षमं प्रति 030c अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः