001 वैशम्पायन उवाच 001a क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् 001c शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च 002a ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् 002c अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् 003a पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् 003c गतः सानुचरो राजञ्शक्रलोकं महीपतिः 004a दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः 004c सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ 005a इत्येवमुक्त्वा राजानं कृपः शारद्वतस्तदा 005c गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत् 006a अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् 006c वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः 007a ध्रुवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् 007c भास्वरं देहमास्थाय विहरन्त्यमरा इव 008a न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः 008c शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः 009a एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम् 009c शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि 010a न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः 010c शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः 011a अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् 011c सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम् 012a पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः 012c द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः 013a तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते 013c प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः 014a ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः 014c अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः 015a निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः 015c निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि 016a पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे 016c अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः 017a राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् 017c निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् 018a इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् 018c कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत 019a अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् 019c गङ्गामनु महात्मानस्तूर्णमश्वानचोदयन् 020a अपक्रम्य तु ते राजन्सर्व एव महारथाः 020c आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः 021a जगाम हास्तिनपुरं कृपः शारद्वतस्तदा 021c स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ 022a एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् 022c भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् 023a समेत्य वीरा राजानं तदा त्वनुदिते रवौ 023c विप्रजग्मुर्महाराज यथेच्छकमरिन्दमाः