001 जनमेजय उवाच 001a गते भगवति व्यासे धृतराष्ट्रो महीपतिः 001c किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि 002 वैशम्पायन उवाच 002a एतच्छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्वचेतनः 002c सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत 003a क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः 003c वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः 004a एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् 004c शोकविप्रहतज्ञानो यानमेवान्वपद्यत 005a गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता 005c सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् 006a ताः समासाद्य राजानं भृशं शोकसमन्विताः 006c आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः 007a ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम् 007c अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् 008a ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु 008c आकुमारं पुरं सर्वमभवच्छोककर्शितम् 009a अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि 009c पृथग्जनेन दृश्यन्त तास्तदा निहतेश्वराः 010a प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च 010c एकवस्त्रधरा नार्यः परिपेतुरनाथवत् 011a श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन् 011c गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः 012a तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः 012c शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गने 013a प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि 013c दर्शयन्तीव ता ह स्म युगान्ते लोकसङ्क्षयम् 014a विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः 014c शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे 015a व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः 015c ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् 016a परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्स्म याः 016c ताः शोकविह्वला राजन्नुपैक्षन्त परस्परम् 017a ताभिः परिवृतो राजा रुदतीभिः सहस्रशः 017c निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति 018a शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः 018c ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः 019a तासां विक्रोशमानानामार्तानां कुरुसङ्क्षये 019c प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत 020a युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव 020c अभावः स्यादयं प्राप्त इति भूतानि मेनिरे 021a भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये 021c प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम्