001 वैशम्पायन उवाच 001a विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः 001c पुत्रशोकाभिसन्तप्तः पपात भुवि मूर्छितः 002a तं तथा पतितं भूमौ निःसञ्ज्ञं प्रेक्ष्य बान्धवाः 002c कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा 003a सञ्जयः सुहृदश्चान्ये द्वाःस्था ये चास्य सम्मताः 003c जलेन सुखशीतेन तालवृन्तैश्च भारत 004a पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः 004c अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम् 005a अथ दीर्घस्य कालस्य लब्धसञ्ज्ञो महीपतिः 005c विललाप चिरं कालं पुत्राधिभिरभिप्लुतः 006a धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् 006c यतोमूलानि दुःखानि सम्भवन्ति मुहुर्मुहुः 007a पुत्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामपि 007c प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो 008a येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति 008c येनाभिभूतः पुरुषो मरणं बहु मन्यते 009a तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात् 009c तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम 010a इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् 010c धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः 010e अभूच्च तूष्णीं राजासौ ध्यायमानो महीपते 011a तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः 011c पुत्रशोकाभिसन्तप्तं पुत्रं वचनमब्रवीत् 012a धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु 012c श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा 013a न तेऽस्त्यविदितं किञ्चिद्वेदितव्यं परन्तप 013c अनित्यतां हि मर्त्यानां विजानासि न संशयः 014a अध्रुवे जीवलोके च स्थाने वाशाश्वते सति 014c जीविते मरणान्ते च कस्माच्छोचसि भारत 015a प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः 015c पुत्रं ते कारणं कृत्वा कालयोगेन कारितः 016a अवश्यं भवितव्ये च कुरूणां वैशसे नृप 016c कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् 017a जानता च महाबाहो विदुरेण महात्मना 017c यतितं सर्वयत्नेन शमं प्रति जनेश्वर 018a न च दैवकृतो मार्गः शक्यो भूतेन केनचित् 018c घटतापि चिरं कालं नियन्तुमिति मे मतिः 019a देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् 019c तत्तेऽहं सम्प्रवक्ष्यामि कथं स्थैर्यं भवेत्तव 020a पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः 020c अपश्यं तत्र च तदा समवेतान्दिवौकसः 020e नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा 021a तत्र चापि मया दृष्टा पृथिवी पृथिवीपते 021c कार्यार्थमुपसम्प्राप्ता देवतानां समीपतः 022a उपगम्य तदा धात्री देवानाह समागतान् 022c यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा 022e प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् 023a तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः 023c उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि 024a धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै 024c दुर्योधन इति ख्यातः स ते कार्यं करिष्यति 024e तं च प्राप्य महीपालं कृतकृत्या भविष्यसि 025a तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः 025c अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः 026a ततस्ते भविता देवि भारस्य युधि नाशनम् 026c गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने 027a स एष ते सुतो राजल्ँलोकसंहारकारणात् 027c कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप 028a अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः 028c दैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः 029a शकुनिर्मातुलश्चैव कर्णश्च परमः सखा 029c समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः 029e एतमर्थं महाबाहो नारदो वेद तत्त्वतः 030a आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते 030c मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् 031a न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत 031c पुत्रास्तव दुरात्मानो यैरियं घातिता मही 032a नारदेन च भद्रं ते पूर्वमेव न संशयः 032c युधिष्ठिरस्य समितौ राजसूये निवेदितम् 033a पाण्डवाः कौरवाश्चैव समासाद्य परस्परम् 033c न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर 034a नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः 034c एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् 035a कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो 035c स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् 036a एष चार्थो महाबाहो पूर्वमेव मया श्रुतः 036c कथितो धर्मराजस्य राजसूये क्रतूत्तमे 037a यतितं धर्मपुत्रेण मया गुह्ये निवेदिते 037c अविग्रहे कौरवाणां दैवं तु बलवत्तरम् 038a अनतिक्रमणीयो हि विधी राजन्कथञ्चन 038c कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च 039a भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत 039c मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च 040a त्वां तु शोकेन सन्तप्तं मुह्यमानं मुहुर्मुहुः 040c ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् 041a कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि 041c स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति 042a मम चैव नियोगेन विधेश्चाप्यनिवर्तनात् 042c पाण्डवानां च कारुण्यात्प्राणान्धारय भारत 043a एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति 043c धर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात् 044a पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा 044c प्रज्ञाम्भसा महाराज निर्वापय सदा सदा 045a एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः 045c मुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत 046a महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम 046c नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः 047a इदं तु वचनं श्रुत्वा तव दैवनियोगजम् 047c धारयिष्याम्यहं प्राणान्यतिष्ये च नशोचितुम् 048a एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः 048c धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत