001 धृतराष्ट्र उवाच 001a अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना 001c भूय एव तु मे हर्षः श्रोतुं वागमृतं तव 002 विदुर उवाच 002a शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् 002c यच्छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः 003a यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः 003c क्वचित्क्वचिच्छ्रमात्स्थाता कुरुते वासमेव वा 004a एवं संसारपर्याये गर्भवासेषु भारत 004c कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः 005a तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः 005c यत्तु संसारगहनं वनमाहुर्मनीषिणः 006a सोऽयं लोकसमावर्तो मर्त्यानां भरतर्षभ 006c चराणां स्थावराणां च गृध्येत्तत्र न पण्डितः 007a शारीरा मानसाश्चैव मर्त्यानां ये तु व्याधयः 007c प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः 008a क्लिश्यमानाश्च तैर्नित्यं हन्यमानाश्च भारत 008c स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः 009a अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप 009c आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी 010a शब्दरूपरसस्पर्शैर्गन्धैश्च विविधैरपि 010c मज्जमानं महापङ्के निरालम्बे समन्ततः 011a संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः 011c क्रमेणास्य प्रलुम्पन्ति रूपमायुस्तथैव च 012a एते कालस्य निधयो नैताञ्जानन्ति दुर्बुधाः 012c अत्राभिलिखितान्याहुः सर्वभूतानि कर्मणा 013a रथं शरीरं भूतानां सत्त्वमाहुस्तु सारथिम् 013c इन्द्रियाणि हयानाहुः कर्म बुद्धिश्च रश्मयः 014a तेषां हयानां यो वेगं धावतामनुधावति 014c स तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते 015a यस्तान्यमयते बुद्ध्या स यन्ता न निवर्तते 015c याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः 016a स चैतत्प्राप्नुते राजन्यत्त्वं प्राप्तो नराधिप 016c राज्यनाशं सुहृन्नाशं सुतनाशं च भारत 017a अनुतर्षुलमेवैतद्दुःखं भवति भारत 017c साधुः परमदुःखानां दुःखभैषज्यमाचरेत् 018a न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः 018c तथोन्मोचयते दुःखाद्यथात्मा स्थिरसंयमः 019a तस्मान्मैत्रं समास्थाय शीलमापद्य भारत 019c दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः 020a शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे 020c त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति