001 धृतराष्ट्र उवाच 001a यदिदं धर्मगहनं बुद्ध्या समनुगम्यते 001c एतद्विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे 002 विदुर उवाच 002a अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयम्भुवे 002c यथा संसारगहनं वदन्ति परमर्षयः 003a कश्चिन्महति संसारे वर्तमानो द्विजः किल 003c वनं दुर्गमनुप्राप्तो महत्क्रव्यादसङ्कुलम् 004a सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः 004c समन्तात्सम्परिक्षिप्तं मृत्योरपि भयप्रदम् 005a तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम् 005c अभ्युच्छ्रयश्च रोम्णां वै विक्रियाश्च परन्तप 006a स तद्वनं व्यनुसरन्विप्रधावनितस्ततः 006c वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति 007a स तेषां छिद्रमन्विच्छन्प्रद्रुतो भयपीडितः 007c न च निर्याति वै दूरं न च तैर्विप्रयुज्यते 008a अथापश्यद्वनं घोरं समन्ताद्वागुरावृतम् 008c बाहुभ्यां सम्परिष्वक्तं स्त्रिया परमघोरया 009a पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः 009c नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम् 010a वनमध्ये च तत्राभूदुदपानः समावृतः 010c वल्लीभिस्तृणछन्नाभिर्गूढाभिरभिसंवृतः 011a पपात स द्विजस्तत्र निगूढे सलिलाशये 011c विलग्नश्चाभवत्तस्मिल्ँलतासन्तानसङ्कटे 012a पनसस्य यथा जातं वृन्तबद्धं महाफलम् 012c स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधःशिराः 013a अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः 013c कूपवीनाहवेलायामपश्यत महागजम् 014a षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् 014c क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् 015a तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः 015c नानारूपा मधुकरा घोररूपा भयावहाः 015e आसते मधु सम्भृत्य पूर्वमेव निकेतजाः 016a भूयो भूयः समीहन्ते मधूनि भरतर्षभ 016c स्वादनीयानि भूतानां न यैर्बालोऽपि तृप्यते 017a तेषां मधूनां बहुधा धारा प्रस्रवते सदा 017c तां लम्बमानः स पुमान्धारां पिबति सर्वदा 017e न चास्य तृष्णा विरता पिबमानस्य सङ्कटे 018a अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः 018c न चास्य जीविते राजन्निर्वेदः समजायत 019a तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता 019c कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति स्म मूषकाः 020a व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया 020c कूपाधस्ताच्च नागेन वीनाहे कुञ्जरेण च 021a वृक्षप्रपाताच्च भयं मूषकेभ्यश्च पञ्चमम् 021c मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम् 022a एवं स वसते तत्र क्षिप्तः संसारसागरे 022c न चैव जीविताशायां निर्वेदमुपगच्छति