001 धृतराष्ट्र उवाच 001a अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ 001c कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर 002a स देशः क्व नु यत्रासौ वसते धर्मसङ्कटे 002c कथं वा स विमुच्येत नरस्तस्मान्महाभयात् 003a एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तथा 003c कृपा मे महती जाता तस्याभ्युद्धरणेन हि 004 विदुर उवाच 004a उपमानमिदं राजन्मोक्षविद्भिरुदाहृतम् 004c सुगतिं विन्दते येन परलोकेषु मानवः 005a यत्तदुच्यति कान्तारं महत्संसार एव सः 005c वनं दुर्गं हि यत्त्वेतत्संसारगहनं हि तत् 006a ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः 006c या सा नारी बृहत्काया अधितिष्ठति तत्र वै 006e तामाहुस्तु जरां प्राज्ञा वर्णरूपविनाशिनीम् 007a यस्तत्र कूपो नृपते स तु देहः शरीरिणाम् 007c यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः 007e अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ 008a कूपमध्ये च या जाता वल्ली यत्र स मानवः 008c प्रताने लम्बते सा तु जीविताशा शरीरिणाम् 009a स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति 009c षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः 009e मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः 010a ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः 010c रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः 010e ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः 011a यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् 011c तांस्तु कामरसान्विद्याद्यत्र मज्जन्ति मानवाः 012a एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः 012c ते वै संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः