001 धृतराष्ट्र उवाच 001a कथं संसारगहनं विज्ञेयं वदतां वर 001c एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः 002 विदुर उवाच 002a जन्मप्रभृति भूतानां क्रियाः सर्वाः शृणु प्रभो 002c पूर्वमेवेह कलले वसते किञ्चिदन्तरम् 003a ततः स पञ्चमेऽतीते मासे मांसं प्रकल्पयेत् 003c ततः सर्वाङ्गसम्पूर्णो गर्भो मासे प्रजायते 004a अमेध्यमध्ये वसति मांसशोणितलेपने 004c ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधःशिराः 005a योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति 005c योनिसम्पीडनाच्चैव पूर्वकर्मभिरन्वितः 006a तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान् 006c ग्रहास्तमुपसर्पन्ति सारमेया इवामिषम् 007a ततः प्राप्तोत्तरे काले व्याधयश्चापि तं तथा 007c उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः 008a बद्धमिन्द्रियपाशैस्तं सङ्गस्वादुभिरातुरम् 008c व्यसनान्युपवर्तन्ते विविधानि नराधिप 008e बध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः 009a अयं न बुध्यते तावद्यमलोकमथागतम् 009c यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति 010a वाग्घीनस्य च यन्मात्रमिष्टानिष्टं कृतं मुखे 010c भूय एवात्मनात्मानं बध्यमानमुपेक्षते 011a अहो विनिकृतो लोको लोभेन च वशीकृतः 011c लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते 012a कुलीनत्वेन रमते दुष्कुलीनान्विकुत्सयन् 012c धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् 013a मूर्खानिति परानाह नात्मानं समवेक्षते 013c शिक्षां क्षिपति चान्येषां नात्मानं शास्तुमिच्छति 014a अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन् 014c जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् 015a एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते 015c स प्रमोक्षाय लभते पन्थानं मनुजाधिप