001 धृतराष्ट्र उवाच 001a सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम 001c भुय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः 002a अनिष्टानां च संसर्गादिष्टानां च विवर्जनात् 002c कथं हि मानसैर्दुःखैः प्रमुच्यन्तेऽत्र पण्डिताः 003 विदुर उवाच 003a यतो यतो मनो दुःखात्सुखाद्वापि प्रमुच्यते 003c ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः 004a अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ 004c कदलीसन्निभो लोकः सारो ह्यस्य न विद्यते 005a गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः 005c कालेन विनियुज्यन्ते सत्त्वमेकं तु शोभनम् 006a यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः 006c अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम् 007a वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम् 007c प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा 008a कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत 008c ततो वहति तं भारमवशः स्ववशोऽपि वा 009a यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते 009c किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा 010a छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा 010c आर्द्रं वाप्यथ वा शुष्कं पच्यमानमथापि वा 011a अवतार्यमाणमापाकादुद्धृतं वापि भारत 011c अथ वा परिभुज्यन्तमेवं देहाः शरीरिणाम् 012a गर्भस्थो वा प्रसूतो वाप्यथ वा दिवसान्तरः 012c अर्धमासगतो वापि मासमात्रगतोऽपि वा 013a संवत्सरगतो वापि द्विसंवत्सर एव वा 013c यौवनस्थोऽपि मध्यस्थो वृद्धो वापि विपद्यते 014a प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च 014c एवं सांसिद्धिके लोके किमर्थमनुतप्यसे 015a यथा च सलिले राजन्क्रीडार्थमनुसञ्चरन् 015c उन्मज्जेच्च निमज्जेच्च किञ्चित्सत्त्वं नराधिप 016a एवं संसारगहनादुन्मज्जननिमज्जनात् 016c कर्मभोगेन बध्यन्तः क्लिश्यन्ते येऽल्पबुद्धयः 017a ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः 017c समागमज्ञा भूतानां ते यान्ति परमां गतिम्