001 वैशम्पायन उवाच 001a ततोऽमृतसमैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् 001c वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् 002 विदुर उवाच 002a उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना 002c स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णयः 003a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 003c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 004a यदा शूरं च भीरुं च यमः कर्षति भारत 004c तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ 005a अयुध्यमानो म्रियते युध्यमानश्च जीवति 005c कालं प्राप्य महाराज न कश्चिदतिवर्तते 006a न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि 006c प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् 007a सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः 007c सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना 008a अदर्शनादापतिताः पुनश्चादर्शनं गताः 008c न ते तव न तेषां त्वं तत्र का परिदेवना 009a हतोऽपि लभते स्वर्गं हत्वा च लभते यशः 009c उभयं नो बहुगुणं नास्ति निष्फलता रणे 010a तेषां कामदुघाल्ँलोकानिन्द्रः सङ्कल्पयिष्यति 010c इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ 011a न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया 011c स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः 012a मातापितृसहस्राणि पुत्रदारशतानि च 012c संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् 013a शोकस्थानसहस्राणि भयस्थानशतानि च 013c दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 014a न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम 014c न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति 015a अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः 015c आरोग्यं प्रियसंवासो गृध्येदेषु न पण्डितः 016a न जानपदिकं दुःखमेकः शोचितुमर्हसि 016c अप्यभावेन युज्येत तच्चास्य न निवर्तते 017a अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् 017c भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् 017e चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते 018a अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च 018c मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः 019a नार्थो न धर्मो न सुखं यदेतदनुशोचसि 019c न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते 020a अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः 020c असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः 021a प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः 021c एतज्ज्ञानस्य सामर्थ्यं न बालैः समतामियात् 022a शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति 022c अनुधावति धावन्तं कर्म पूर्वकृतं नरम् 023a यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् 023c तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते