001 जनमेजय उवाच 001a हते दुर्योधने चैव हते सैन्ये च सर्वशः 001c धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने 002a तथैव कौरवो राजा धर्मपुत्रो महामनाः 002c कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः 003a अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः 003c वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः 004 वैशम्पायन उवाच 004a हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् 004c पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम् 005a ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् 005c अभिगम्य महाप्राज्ञः सञ्जयो वाक्यमब्रवीत् 006a किं शोचसि महाराज नास्ति शोके सहायता 006c अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते 006e निर्जनेयं वसुमती शून्या सम्प्रति केवला 007a नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः 007c सहितास्तव पुत्रेण सर्वे वै निधनं गताः 008a पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा 008c गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय 009 वैशम्पायन उवाच 009a तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः 009c पपात भुवि दुर्धर्षो वाताहत इव द्रुमः 010 धृतराष्ट्र उवाच 010a हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः 010c दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम् 011a किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै 011c लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः 012a हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा 012c न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् 013a न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः 013c नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च 014a सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम 014c अलं वैरेण ते राजन्पुत्रः सङ्गृह्यतामिति 015a तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः 015c न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम् 016a दुर्योधनस्य च तथा वृषभस्येव नर्दतः 016c दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् 016e द्रोणसूर्योपरागं च हृदयं मे विदीर्यते 017a न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम् 017c यस्येदं फलमद्येह मया मूढेन भुज्यते 018a नूनं ह्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु 018c येन मां दुःखभागेषु धाता कर्मसु युक्तवान् 019a परिणामश्च वयसः सर्वबन्धुक्षयश्च मे 019c सुहृन्मित्रविनाशश्च दैवयोगादुपागतः 019e कोऽन्योऽस्ति दुःखिततरो मया लोके पुमानिह 020a तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम् 020c विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् 021 वैशम्पायन उवाच 021a तस्य लालप्यमानस्य बहुशोकं विचिन्वतः 021c शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत् 022a शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः 022c शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम 022e सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा 023a तथा यौवनजं दर्पमास्थिते ते सुते नृप 023c न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् 023e स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना 024a तव दुःशासनो मन्त्री राधेयश्च दुरात्मवान् 024c शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः 024e शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत् 025a कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च 025c न कृतं वचनं तेन तव पुत्रेण भारत 026a न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति ब्रुवन् 026c क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः 027a मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान् 027c धूर्धरेण त्वया भारस्तुलया न समं धृतः 028a आदावेव मनुष्येण वर्तितव्यं यथा क्षमम् 028c यथा नातीतमर्थं वै पश्चात्तापेन युज्यते 029a पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षता 029c पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि 030a मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति 030c स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान् 031a अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम् 031c न शोचञ्श्रियमाप्नोति न शोचन्विन्दते परम् 032a स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत् 032c दह्यमानो मनस्तापं भजते न स पण्डितः 033a त्वयैव ससुतेनायं वाक्यवायुसमीरितः 033c लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः 034a तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः 034c तान्केशवार्चिर्निर्दग्धान्न त्वं शोचितुमर्हसि 035a यच्चाश्रुपातकलिलं वदनं वहसे नृप 035c अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः 036a विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान् 036c जहीहि मन्युं बुद्ध्या वै धारयात्मानमात्मना 037a एवमाश्वासितस्तेन सञ्जयेन महात्मना 037c विदुरो भूय एवाह बुद्धिपूर्वं परन्तप