वासुदेव उवाच 001
ततो देवयुगेऽतीते देवा वै समकल्पयन् 001a
यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः 001c
कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः 002a
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च 002c
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः 003a
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप 003c
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः 004a
तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह 004c
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः 005a
पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः 005c
लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः 006a
धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः 006c
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत 007a
यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन् 007c
ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम् 008a
आजगामाथ तत्रैव यत्र देवाः समीजिरे 008c
तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् 009a
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे 009c
न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः 010a
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् 010c
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः 011a
तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् 011c
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे 012a
न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा 012c
ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा 013a
अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः 013c
स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत 014a
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले 014c
अपक्रान्ते ततो यज्ञे सञ्ज्ञा न प्रत्यभात्सुरान् 015a
नष्टसञ्ज्ञेषु देवेषु न प्रज्ञायत किञ्चन 015c
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा 016a
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् 016c
प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः 017a
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् 017c
स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च 018a
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः 018c
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् 019a
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः 019c
ततो विधनुषं देवा देवश्रेष्ठमुपागमन् 020a
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः 020c
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये 021a
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो 021c
भगस्य नयने चैव बाहू च सवितुस्तथा 022a
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव 022c
ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह 023a
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् 023c
तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो 024a
प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान् 024c
ततस्ते निहताः सर्वे तव पुत्रा महारथाः 025a
अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः 025c
न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् 026a
महादेवप्रसादः स कुरु कार्यमनन्तरम् 026c