वैशम्पायन उवाच 001
हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः 001a
शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत् 001c
कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा 002a
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः 002c
तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः 003a
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः 003c
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् 004a
तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः 004c
किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ 005a
यदेकः शिबिरं सर्वमवधीन्नो गुरोः सुतः 005c
वासुदेव उवाच 006
नूनं स देवदेवानामीश्वरेश्वरमव्ययम् 006a
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून् 006c
प्रसन्नो हि महादेवो दद्यादमरतामपि 007a
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत् 007c
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ 008a
यानि चास्य पुराणानि कर्माणि विविधान्युत 008c
आदिरेष हि भूतानां मध्यमन्तश्च भारत 009a
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा 009c
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः 010a
पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम् 010c
हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् 011a
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः 011c
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः 012a
स्रष्टारं सर्वभूतानां ससर्ज मनसापरम् 012c
सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि 013a
यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः 013c
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः 014a
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै कृतिम् 014c
स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन् 015a
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् 015c
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् 016a
बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा 016c
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् 017a
आभ्यो मां भगवान्पातु वृत्तिरासां विधीयताम् 017c
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च 018a
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् 018c
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् 019a
ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु 019c
भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि 020a
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः 020c
बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा 021a
चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत 021c
तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत 022a
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव 022c
किं कृतं सलिले शर्व चिरकालं स्थितेन ते 023a
किमर्थं चैतदुत्पाट्य भूमौ लिङ्गं प्रवेरितम् 023c
सोऽब्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम् 024a
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै 024c
तपसाधिगतं चान्नं प्रजार्थं मे पितामह 025a
ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः 025c
एवमुक्त्वा तु सङ्क्रुद्धो जगाम विमना भवः 026a
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः 026c