वैशम्पायन उवाच 001
तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा 001a
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा 001c
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः 002a
उपप्लव्यगतां दृष्ट्वा व्रतवान्ब्राह्मणोऽब्रवीत् 002c
परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यति 003a
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति 003c
तस्य तद्वचनं साधोः सत्यमेव भविष्यति 004a
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः 004c
एवं ब्रुवाणं गोविन्दं सात्वतप्रवरं तदा 005a
द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम् 005c
नैतदेवं यथात्थ त्वं पक्षपातेन केशव 006a
वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा 006c
पतिष्यत्येतदस्त्रं हि गर्भे तस्या मयोद्यतम् 007a
विराटदुहितुः कृष्ण यां त्वं रक्षितुमिच्छसि 007c
वासुदेव उवाच 008
अमोघः परमास्त्रस्य पातस्तस्य भविष्यति 008a
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति 008c
त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः 009a
असकृत्पापकर्माणं बालजीवितघातकम् 009c
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि 010a
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् 010c
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित् 010e
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि 011a
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः 011c
पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः 012a
विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः 012c
वयः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च 013a
कृपाच्छारद्वताद्वीरः सर्वास्त्राण्युपलप्स्यते 013c
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः 014a
षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति 014c
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति 015a
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते 015c
पश्य मे तपसो वीर्यं सत्यस्य च नराधम 015e
व्यास उवाच 016
यस्मादनादृत्य कृतं त्वयास्मान्कर्म दारुणम् 016a
ब्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम् 016c
तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः 017a
असंशयं ते तद्भावि क्षुद्रकर्मन्व्रजाश्वितः 017c
अश्वत्थामोवाच 018
सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्वहम् 018a
सत्यवागस्तु भगवानयं च पुरुषोत्तमः 018c
वैशम्पायन उवाच 019
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् 019a
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् 019c
पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः 020a
कृष्णद्वैपायनं चैव नारदं च महामुनिम् 020c
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः 021a
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् 021c
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः 022a
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव ह 022c
अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः 023a
ददृशुर्द्रौपदीं कृष्णामार्तामार्ततराः स्वयम् 023c
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् 024a
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः 024c
ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः 025a
प्रददौ तु मणिं दिव्यं वचनं चेदमब्रवीत् 025c
अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते 026a
उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर 026c
प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे 027a
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनः 027c
नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च 028a
नैव त्वमपि गोविन्द शममिच्छति राजनि 028c
उक्तवत्यसि धीराणि वाक्यानि पुरुषोत्तमम् 029a
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि 029c
हतो दुर्योधनः पापो राज्यस्य परिपन्थकः 030a
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया 030c
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् 031a
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च 031c
यशोऽस्य पातितं देवि शरीरं त्ववशेषितम् 032a
वियोजितश्च मणिना न्यासितश्चायुधं भुवि 032c
द्रौपद्युवाच 033
केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम 033a
शिरस्येतं मणिं राजा प्रतिबध्नातु भारत 033c
वैशम्पायन उवाच 034
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा 034a
गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि 034c
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः 035a
शुशुभे स महाराजः सचन्द्र इव पर्वतः 035c
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी 036a
कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट् 036c