वैशम्पायन उवाच 001
दृष्ट्वैव नरशार्दूलस्तावग्निसमतेजसौ 001a
सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः 001c
उवाच वदतां श्रेष्ठस्तावृषी प्राञ्जलिस्तदा 002a
प्रयुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया 002c
संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः 003a
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा 003c
अत्र यद्धितमस्माकं लोकानां चैव सर्वथा 004a
भवन्तौ देवसङ्काशौ तथा संहर्तुमर्हतः 004c
इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः 005a
संहारो दुष्करस्तस्य देवैरपि हि संयुगे 005c
विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे 006a
न शक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः 006c
ब्रह्मतेजोभवं तद्धि विसृष्टमकृतात्मना 007a
न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते 007c
अचीर्णब्रह्मचर्यो यः सृष्ट्वावर्तयते पुनः 008a
तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति 008c
ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् 009a
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत 009c
सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः 010a
गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः 010c
द्रौणिरप्यथ सम्प्रेक्ष्य तावृषी पुरतः स्थितौ 011a
न शशाक पुनर्घोरमस्त्रं संहर्तुमाहवे 011c
अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे 012a
द्रौणिर्दीनमना राजन्द्वैपायनमभाषत 012c
उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना 013a
मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने 013c
अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता 014a
मिथ्याचारेण भगवन्भीमसेनेन संयुगे 014c
अतः सृष्टमिदं ब्रह्मन्मयास्त्रमकृतात्मना 015a
तस्य भूयोऽद्य संहारं कर्तुं नाहमिहोत्सहे 015c
विसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् 016a
अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै 016c
तदिदं पाण्डवेयानामन्तकायाभिसंहितम् 017a
अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशयिष्यति 017c
कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा 018a
वधमाशास्य पार्थानां मयास्त्रं सृजता रणे 018c
व्यास उवाच 019
अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः 019a
उत्सृष्टवान्न रोषेण न वधाय तवाहवे 019c
अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता 020a
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् 020c
ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव 021a
क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः 021c
एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः 022a
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि 022c
अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते 023a
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति 023c
एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः 024a
न विहन्त्येतदस्त्रं ते प्रजाहितचिकीर्षया 024c
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः 025a
तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज 025c
अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः 026a
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति 026c
मणिं चैतं प्रयच्छैभ्यो यस्ते शिरसि तिष्ठति 027a
एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः 027c
द्रौणिरुवाच 028
पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् 028a
अवाप्तानीह तेभ्योऽयं मणिर्मम विशिष्यते 028c
यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् 029a
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन 029c
न च रक्षोगणभयं न तस्करभयं तथा 030a
एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन 030c
यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् 031a
अयं मणिरयं चाहमिषीका निपतिष्यति 031c
गर्भेषु पाण्डवेयानाममोघं चैतदुद्यतम् 031e
व्यास उवाच 032
एवं कुरु न चान्या ते बुद्धिः कार्या कदाचन 032a
गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम 032c
वैशम्पायन उवाच 033
ततः परममस्त्रं तदश्वत्थामा भृशातुरः 033a
द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह 033c