वैशम्पायन उवाच 001
इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः 001a
द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत 001c
अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते 002a
द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव 002c
भ्रातॄणामात्मनश्चैव परित्राणाय भारत 003a
विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् 003c
केशवेनैवमुक्तस्तु पाण्डवः परवीरहा 004a
अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः 004c
पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने 005a
भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः 005c
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः 006a
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् 006c
ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना 007a
प्रजज्वाल महार्चिष्मद्युगान्तानलसन्निभम् 007c
तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः 008a
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् 008c
निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः 009a
महद्भयं च भूतानां सर्वेषां समजायत 009c
सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम् 010a
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा 010c
ते अस्त्रे तेजसा लोकांस्तापयन्ती व्यवस्थिते 011a
महर्षी सहितौ तत्र दर्शयामासतुस्तदा 011c
नारदः स च धर्मात्मा भरतानां पितामहः 012a
उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ 012c
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ 013a
दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ 013c
तदन्तरमनाधृष्यावुपगम्य यशस्विनौ 014a
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ 014c
प्राणभृद्भिरनाधृष्यौ देवदानवसम्मतौ 015a
अस्त्रतेजः शमयितुं लोकानां हितकाम्यया 015c
ऋषी ऊचतुः 016
नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः 016a
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन 016c