वैशम्पायन उवाच 001
एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः 001a
सर्वायुधवरोपेतमारुरोह महारथम् 001c
युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः 001e
आदित्योदयवर्णस्य धुरं रथवरस्य तु 002a
दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत् 002c
पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ 002e
विश्वकर्मकृता दिव्या नानारत्नविभूषिता 003a
उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत 003c
वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् 004a
तस्य सत्यवतः केतुर्भुजगारिरदृश्यत 004c
अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् 005a
अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः 005c
अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ 006a
रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् 006c
तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम् 007a
प्रतोदेन जवोपेतान्परमाश्वानचोदयत् 007c
ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् 008a
आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च 008c
वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् 009a
प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव 009c
ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ 010a
भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः 010c
क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् 011a
नाशक्नुवन्वारयितुं समेत्यापि महारथाः 011c
स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम् 012a
ययौ भागीरथीकच्छं हरिभिर्भृशवेगितैः 012c
यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् 012e
स ददर्श महात्मानमुदकान्ते यशस्विनम् 013a
कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह 013c
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् 014a
रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके 014c
तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः 015a
भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत् 015c
स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् 016a
भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ 016c
व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत 016e
स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत् 017a
जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना 017c
स तामापदमासाद्य दिव्यमस्त्रमुदीरयत् 017e
अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान् 018a
अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः 018c
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् 019a
सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह 019c
ततस्तस्यामिषीकायां पावकः समजायत 020a
प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः 020c