वैशम्पायन उवाच 001
तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः 001a
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् 001c
एष पाण्डव ते भ्राता पुत्रशोकमपारयन् 002a
जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः 002c
भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ 003a
तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे 003c
यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः 004a
अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि 004c
तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् 005a
प्रत्यपादयदाचार्यः प्रीयमाणो धनञ्जयम् 005c
तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः 006a
ततः प्रोवाच पुत्राय नातिहृष्टमना इव 006c
विदितं चापलं ह्यासीदात्मजस्य महात्मनः 007a
सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम् 007c
परमापद्गतेनापि न स्म तात त्वया रणे 008a
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः 008c
इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् 009a
न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ 009c
स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् 010a
निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम् 010c
ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत 011a
अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः 011c
स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु 012a
एक एकं समागम्य मामुवाच हसन्निव 012c
यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः 013a
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता 013c
अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् 014a
तदद्य मयि दाशार्ह यथा पितरि मे तथा 014c
अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम 015a
ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे 015c
स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः 016a
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ 016c
देवदानवगन्धर्वमनुष्यपतगोरगाः 017a
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः 017c
इदं धनुरियं शक्तिरिदं चक्रमियं गदा 018a
यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते 018c
यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे 019a
तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि 019c
स सुनाभं सहस्रारं वज्रनाभमयस्मयम् 020a
वव्रे चक्रं महाबाहो स्पर्धमानो मया सह 020c
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् 021a
जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना 021c
न चैतदशकत्स्थानात्सञ्चालयितुमच्युत 021e
अथ तद्दक्षिणेनापि ग्रहीतुमुपचक्रमे 022a
सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत् 022c
ततः सर्वबलेनापि यच्चैतन्न शशाक सः 023a
उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः 023c
कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत 023e
निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम् 024a
अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम् 024c
यः स देवमनुष्येषु प्रमाणं परमं गतः 025a
गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः 025c
यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् 026a
द्वन्द्वयुद्धे पराजिष्णुस्तोषयामास शङ्करम् 026c
यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि 027a
नादेयं यस्य मे किञ्चिदपि दाराः सुतास्तथा 027c
तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा 028a
नोक्तपूर्वमिदं वाक्यं यत्त्वं मामभिभाषसे 028c
ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम् 029a
हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः 029c
समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत 030a
सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः 030c
तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं मम 031a
न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया 031c
रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन 032a
न गदेन न साम्बेन यदिदं प्रार्थितं त्वया 032c
द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः 033a
नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया 033c
भारताचार्यपुत्रः सन्मानितः सर्वयादवैः 034a
चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे 034c
एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह 035a
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्युत 035c
ततस्ते प्रार्थितं चक्रं देवदानवपूजितम् 036a
अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते 036c
त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव 037a
प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् 037c
एतत्सुनाभं वृष्णीनामृषभेण त्वया धृतम् 038a
चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते 038c
एतावदुक्त्वा द्रौणिर्मां युग्यमश्वान्धनानि च 039a
आदायोपययौ बालो रत्नानि विविधानि च 039c
स संरम्भी दुरात्मा च चपलः क्रूर एव च 040a
वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः 040c