वैशम्पायन उवाच 001
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्भ्रातॄन्सखींस्तथा 001a
महादुःखपरीतात्मा बभूव जनमेजय 001c
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः 002a
स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह 002c
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् 003a
सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा 003c
ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा 004a
नकुलः कृष्णया सार्धमुपायात्परमार्तया 004c
उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम् 005a
तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत् 005c
कम्पमानेव कदली वातेनाभिसमीरिता 006a
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि 006c
बभूव वदनं तस्याः सहसा शोककर्शितम् 007a
फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान् 007c
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः 008a
बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः 008c
सा समाश्वासिता तेन भीमसेनेन भामिनी 009a
रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत् 009c
दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम् 010a
आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै 010c
दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम् 011a
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि 011c
आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान् 012a
उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि 012c
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा 013a
शोकस्तपति मां पार्थ हुताशन इवाशयम् 013c
तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे 014a
ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम् 014c
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः 015a
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः 015c
एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् 016a
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी 016c
दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम् 017a
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् 017c
धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे 018a
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि 018c
द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः 019a
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने 019c
द्रौपद्युवाच 020
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः 020a
निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम् 020c
राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः 020e
वैशम्पायन उवाच 021
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना 021a
भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत् 021c
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन् 022a
जहि तं पापकर्माणं शम्बरं मघवानिव 022c
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन 022e
श्रुतं तत्सर्वलोकेषु परमव्यसने यथा 023a
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते 023c
हिडिम्बदर्शने चैव तथा त्वमभवो गतिः 023e
तथा विराटनगरे कीचकेन भृशार्दिताम् 024a
मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव 024c
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा 025a
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव 025c
तस्या बहुविधं दुःखान्निशम्य परिदेवितम् 026a
नामर्षयत कौन्तेयो भीमसेनो महाबलः 026c
स काञ्चनविचित्राङ्गमारुरोह महारथम् 027a
आदाय रुचिरं चित्रं समार्गणगुणं धनुः 027c
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः 028a
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् 028c
ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः 029a
वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः 029c
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः 030a
द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान् 030c