वैशम्पायन उवाच 001
तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः 001a
शशंस धर्मराजाय सौप्तिके कदनं कृतम् 001c
द्रौपदेया महाराज द्रुपदस्यात्मजैः सह 002a
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके 002c
कृतवर्मणा नृशंसेन गौतमेन कृपेण च 003a
अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि 003c
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः 004a
सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम् 004c
छिद्यमानस्य महतो वनस्येव परश्वधैः 005a
शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत 005c
अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते 006a
मुक्तः कथञ्चिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः 006c
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः 007a
पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः 007c
तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः 008a
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ 008c
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा 009a
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः 009c
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः 010a
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः 010c
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् 011a
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् 011c
अनर्थो ह्यर्थसङ्काशस्तथार्थोऽनर्थदर्शनः 012a
जयोऽयमजयाकारो जयस्तस्मात्पराजयः 012c
यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः 013a
कथं मन्येत विजयं ततो जिततरः परैः 013c
येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे 014a
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः 014c
कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे 015a
चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः 015c
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः 016a
ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः 016c
रथह्रदं शरवर्षोर्मिमन्तं रत्नाचितं वाहनराजियुक्तम् 017a
शक्त्यृष्टिमीनध्वजनागनक्रं शरासनावर्तमहेषुफेनम् 017c
सङ्ग्रामचन्द्रोदयवेगवेलं द्रोणार्णवं ज्यातलनेमिघोषम् 018a
ये तेरुरुच्चावचशस्त्रनौभिस्ते राजपुत्रा निहताः प्रमादात् 018c
न हि प्रमादात्परमोऽस्ति कश्चिद्वधो नराणामिह जीवलोके 019a
प्रमत्तमर्था हि नरं समन्तात्त्यजन्त्यनर्थाश्च समाविशन्ति 019c
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं शरार्चिषं कोपमहासमीरम् 020a
महाधनुर्ज्यातलनेमिघोषं तनुत्रनानाविधशस्त्रहोमम् 020c
महाचमूकक्षवराभिपन्नं महाहवे भीष्ममहादवाग्निम् 021a
ये सेहुरात्तायतशस्त्रवेगं ते राजपुत्रा निहताः प्रमादात् 021c
न हि प्रमत्तेन नरेण लभ्या विद्या तपः श्रीर्विपुलं यशो वा 022a
पश्याप्रमादेन निहत्य शत्रून्सर्वान्महेन्द्रं सुखमेधमानम् 022c
इन्द्रोपमान्पार्थिवपुत्रपौत्रान्पश्याविशेषेण हतान्प्रमादात् 023a
तीर्त्वा समुद्रं वणिजः समृद्धाः सन्नाः कुनद्यामिव हेलमानाः 023c
अमर्षितैर्ये निहताः शयाना निःसंशयं ते त्रिदिवं प्रपन्नाः 023e
कृष्णां नु शोचामि कथं न साध्वीं शोकार्णवे साद्य विनङ्क्ष्यतीति 024a
भ्रातॄंश्च पुत्रांश्च हतान्निशम्य पाञ्चालराजं पितरं च वृद्धम् 024c
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां सा शेष्यते शोककृशाङ्गयष्टिः 024e
तच्छोकजं दुःखमपारयन्ती कथं भविष्यत्युचिता सुखानाम् 025a
पुत्रक्षयभ्रातृवधप्रणुन्ना प्रदह्यमानेव हुताशनेन 025c
इत्येवमार्तः परिदेवयन्स राजा कुरूणां नकुलं बभाषे 026a
गच्छानयैनामिह मन्दभाग्यां समातृपक्षामिति राजपुत्रीम् 026c
माद्रीसुतस्तत्परिगृह्य वाक्यं धर्मेण धर्मप्रतिमस्य राज्ञः 027a
ययौ रथेनालयमाशु देव्याः पाञ्चालराजस्य च यत्र दाराः 027c
प्रस्थाप्य माद्रीसुतमाजमीढः शोकार्दितस्तैः सहितः सुहृद्भिः 028a
रोरूयमाणः प्रययौ सुतानामायोधनं भूतगणानुकीर्णम् 028c
स तत्प्रविश्याशिवमुग्ररूपं ददर्श पुत्रान्सुहृदः सखींश्च 029a
भूमौ शयानान्रुधिरार्द्रगात्रान्विभिन्नभग्नापहृतोत्तमाङ्गान् 029c
स तांस्तु दृष्ट्वा भृशमार्तरूपो युधिष्ठिरो धर्मभृतां वरिष्ठः 030a
उच्चैः प्रचुक्रोश च कौरवाग्र्यः पपात चोर्व्यां सगणो विसञ्ज्ञः 030c