सञ्जय उवाच 001
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः 001a
अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः 001c
गत्वा चैनमपश्यंस्ते किञ्चित्प्राणं नराधिपम् 002a
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् 002c
तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् 003a
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले 003c
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः 004a
शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् 004c
निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्सञ्चिखादिषून् 005a
विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् 005c
तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम् 006a
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन् 006c
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 006e
तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः 007a
शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः 007c
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम् 008a
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः 008c
ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह 009a
रणे राज्ञः शयानस्य कृपणं पर्यदेवयन् 009c
कृप उवाच 010
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः 010a
एकादशचमूभर्ता शेते दुर्योधनो हतः 010c
पश्य चामीकराभस्य चामीकरविभूषिताम् 011a
गदां गदाप्रियस्येमां समीपे पतितां भुवि 011c
इयमेनं गदा शूरं न जहाति रणे रणे 012a
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् 012c
पश्येमां सह वीरेण जाम्बूनदविभूषिताम् 013a
शयानां शयने धर्मे भार्यां प्रीतिमतीमिव 013c
यो वै मूर्धावसिक्तानामग्रे यातः परन्तपः 014a
स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् 014c
येनाजौ निहता भूमावशेरत पुरा द्विषः 015a
स भूमौ निहतः शेते कुरुराजः परैरयम् 015c
भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः 016a
स वीरशयने शेते क्रव्याद्भिः परिवारितः 016c
उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम् 017a
धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम् 017c
सञ्जय उवाच 018
तं शयानं नृपश्रेष्ठं ततो भरतसत्तम 018a
अश्वत्थामा समालोक्य करुणं पर्यदेवयत् 018c
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् 019a
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य ह 019c
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ 020a
बलिनः कृतिनो नित्यं स च पापात्मवान्नृप 020c
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः 021a
पश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे 021c
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः 022a
निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः 022c
धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे 023a
गदया भीमसेनेन निर्भिन्ने सक्थिनी तव 023c
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः 024a
यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम् 024c
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् 025a
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः 025c
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः 026a
दुर्योधनसमो नास्ति गदया इति वीर्यवान् 026c
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत 027a
सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो 027c
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः 028a
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् 028c
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ 029a
हतपुत्रां तु शोचामि गान्धारीं पितरं च ते 029c
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् 029e
धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् 030a
धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम् 030c
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान् 031a
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः 031c
धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः 032a
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ 032c
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा 033a
प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते 033c
धिगस्तु कृतवर्माणं मां कृपं च महारथम् 034a
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् 034c
दातारं सर्वकामानां रक्षितारं प्रजाहितम् 035a
यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान् 035c
कृपस्य तव वीर्येण मम चैव पितुश्च मे 036a
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च 036c
भवत्प्रसादादस्माभिः समित्रैः सहबान्धवैः 037a
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः 037c
कुतश्चापीदृशं सार्थमुपलप्स्यामहे वयम् 038a
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् 038c
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् 039a
यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम् 039c
त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते 040a
किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै 040c
दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम् 041a
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम् 041c
गत्वैतांस्तु महाराज समेत्य त्वं महारथान् 042a
यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम 042c
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् 043a
हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप 043c
परिष्वजेथा राजानं बाह्लिकं सुमहारथम् 044a
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च 044c
तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान् 045a
अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामयम् 045c
इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम् 046a
अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत् 046c
दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु 047a
सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम् 047c
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः 048a
अहं च कृतवर्मा च कृपः शारद्वतस्तथा 048c
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः 049a
पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत 049c
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः 050a
सौप्तिके शिबिरं तेषां हतं सनरवाहनम् 050c
मया च पापकर्मासौ धृष्टद्युम्नो महीपते 051a
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः 051c
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् 052a
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् 052c
न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता 053a
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् 053c
स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना 054a
तेन मन्ये मघवता सममात्मानमद्य वै 054c
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः 055a
इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः 055c
प्राणानुदसृजद्वीरः सुहृदां शोकमादधत् 055e
तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम् 056a
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् 056c
इत्येवं तव पुत्रस्य निशम्य करुणां गिरम् 057a
प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति 057c
तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ 058a
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै 058c
वैशम्पायन उवाच 059
इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा 059a
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् 059c