धृतराष्ट्र उवाच 001
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे 001a
कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् 001c
कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ 002a
असह्यमिति वा मत्वा न निवृत्तौ महारथौ 002c
कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान् 003a
दुर्योधनस्य पदवीं गतौ परमिकां रणे 003c
पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ 004a
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय 004c
सञ्जय उवाच 005
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि 005a
कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् 005c
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ 006a
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् 006c
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने 007a
किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः 007c
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् 008a
यथा न कश्चिदपि मे जीवन्मुच्येत मानवः 008c
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् 009a
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः 009c
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह 010a
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् 010c
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे 011a
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः 011c
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत 012a
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् 012c
क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते 013a
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते 013c
तं शयानं महात्मानं विस्रब्धमकुतोभयम् 014a
प्राबोधयत पादेन शयनस्थं महीपते 014c
स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः 015a
अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् 015c
तमुत्पतन्तं शयनादश्वत्थामा महाबलः 016a
केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले 016c
स बलात्तेन निष्पिष्टः साध्वसेन च भारत 017a
निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा 017c
तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः 018a
नदन्तं विस्फुरन्तं च पशुमारममारयत् 018c
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् 019a
आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः 019c
त्वत्कृते सुकृताल्ँलोकान्गच्छेयं द्विपदां वर 019e
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत् 020a
आचार्यघातिनां लोका न सन्ति कुलपांसन 020c
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते 020e
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् 021a
मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः 021c
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि 022a
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः 022c
ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम् 023a
भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् 023c
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् 024a
अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् 024c
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः 025a
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली 025c
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे 026a
सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा 026c
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः 027a
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत 027c
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः 028a
क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् 028c
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम् 029a
अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै 029c
राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम् 030a
हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति 030c
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् 031a
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् 031c
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् 032a
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके 032c
तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा 033a
तथैव मारयामास विनर्दन्तमरिन्दमम् 033c
युधामन्युस्तु सम्प्राप्तो मत्त्वा तं रक्षसा हतम् 034a
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् 034c
तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत् 035a
विस्फुरन्तं च पशुवत्तथैवैनममारयत् 035c
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् 036a
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् 036c
स्फुरतो वेपमानांश्च शमितेव पशून्मखे 036e
ततो निस्त्रिंशमादाय जघानान्यान्पृथग्जनान् 037a
भागशो विचरन्मार्गानसियुद्धविशारदः 037c
तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान् 038a
श्रान्तान्न्यस्तायुधान्सर्वान्क्षणेनैव व्यपोथयत् 038c
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना 039a
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः 039c
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च 040a
आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत् 040c
तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः 041a
अमानुष इवाकारो बभौ परमभीषणः 041c
ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः 042a
निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः 042c
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः 043a
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् 043c
स घोररूपो व्यचरत्कालवच्छिबिरे ततः 044a
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् 044c
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः 045a
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते 045c
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् 045e
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः 046a
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् 046c
भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः 047a
ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् 047c
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन् 048a
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे 048c
सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे 049a
खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् 049c
द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली 049e
ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे 050a
कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि 050c
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् 051a
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् 051c
सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः 052a
पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत् 052c
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् 053a
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् 053c
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः 054a
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः 054c
श्रुतकर्मा तु परिघं गृहीत्वा समताडयत् 055a
अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् 055c
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना 056a
स हतो न्यपतद्भूमौ विमूढो विकृताननः 056c
तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः 057a
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् 057c
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः 058a
सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत् 058c
ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः 059a
अहनत्सर्वतो वीरं नानाप्रहरणैर्बली 059c
शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत् 059e
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः 060a
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना 060c
शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः 061a
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् 061c
यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत् 061e
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि 062a
चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः 062c
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च 063a
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः 063c
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् 064a
रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम् 064c
ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम् 065a
नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् 065c
हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान् 065e
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष 066a
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा 066c
यतः प्रवृत्तः सङ्ग्रामः कुरुपाण्डवसेनयोः 067a
ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च 067c
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत् 068a
त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् 068c
तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम् 069a
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः 069c
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः 070a
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः 070c
सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित् 071a
कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः 071c
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः 072a
गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो 072c
क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम् 073a
एवं तेषां तदा द्रौणिरन्तकः समपद्यत 073c
अपेतशस्त्रसन्नाहान्संरब्धान्पाण्डुसृञ्जयान् 074a
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः 074c
ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः 075a
निद्रान्धा नष्टसञ्ज्ञाश्च तत्र तत्र निलिल्यिरे 075c
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः 076a
विनदन्तो भृशं त्रस्ताः सन्न्यपेषन्परस्परम् 076c
ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम् 077a
धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम् 077c
पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान् 078a
शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत् 078c
तथैव स्यन्दनाग्रेण प्रमथन्स विधावति 079a
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः 079c
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा 080a
तेन चाकाशवर्णेन तदाचरत सोऽसिना 080c
तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः 081a
व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः 081c
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः 082a
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः 082c
विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथावदन् 083a
न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च 083c
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् 084a
उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् 084c
पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः 084e
बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः 085a
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् 085c
तत्र केचिन्नरा भीता व्यलीयन्त महीतले 086a
तथैव तान्निपतितानपिंषन्गजवाजिनः 086c
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ 087a
तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम 087c
स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः 088a
अपूरयद्दिशः सर्वा दिवं चापि महास्वनः 088c
तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः 089a
मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम् 089c
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः 090a
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः 090c
तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः 091a
नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च 091c
गजा गजानतिक्रम्य निर्मनुष्या हया हयान् 092a
अताडयंस्तथाभञ्जंस्तथामृद्नंश्च भारत 092c
ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम् 093a
न्यपातयन्त च परान्पातयित्वा तथापिषन् 093c
विचेतसः सनिद्राश्च तमसा चावृता नराः 094a
जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः 094c
त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः 095a
प्राद्रवन्त यथाशक्ति कान्दिशीका विचेतसः 095c
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो 096a
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः 096c
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् 097a
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः 097c
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे 098a
तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत् 098c
तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः 099a
शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः 099c
तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः 100a
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः 100c
विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् 101a
वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम् 101c
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः 102a
कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः 102c
भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् 103a
त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् 103c
ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः 104a
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् 104c
कांश्चिदापततो वीरानपरांश्च प्रधावतः 105a
व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान् 105c
कांश्चिद्योधान्स खड्गेन मध्ये सञ्छिद्य वीर्यवान् 106a
अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत् 106c
विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः 107a
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ 107c
मानुषाणां सहस्रेषु हतेषु पतितेषु च 108a
उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् 108c
सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च 109a
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत 109c
पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान् 110a
समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् 110c
मध्यकायान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः 111a
अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः 111c
एवं विचरतस्तस्य निघ्नतः सुबहून्नरान् 112a
तमसा रजनी घोरा बभौ दारुणदर्शना 112c
किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः 113a
बहुना च गजाश्वेन भूरभूद्भीमदर्शना 113c
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे 114a
क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि 114c
मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः 115a
केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे 115c
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः 116a
असान्निध्याद्धि पार्थानामिदं नः कदनं कृतम् 116c
न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः 117a
शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः 117c
ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः 118a
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् 118c
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः 118e
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः 119a
इति लालप्यमानाः स्म शेरते बहवो जनाः 119c
स्तनतां च मनुष्याणामपरेषां च कूजताम् 120a
ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् 120c
शोणितव्यतिषिक्तायां वसुधायां च भूमिप 121a
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत 121c
संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः 122a
न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा 122c
अन्योन्यं सम्परिष्वज्य शयानान्द्रवतोऽपरान् 123a
संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् 123c
दह्यमाना हुताशेन वध्यमानाश्च तेन ते 124a
परस्परं तदा योधा अनयन्यमसादनम् 124c
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् 125a
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् 125c
निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी 126a
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् 126c
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः 127a
खादन्तो नरमांसानि पिबन्तः शोणितानि च 127c
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः 128a
जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः 128c
पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः 129a
घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः 129c
सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः 130a
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् 130c
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे 131a
इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् 131c
मेदोमज्जास्थिरक्तानां वसानां च भृशाशिताः 132a
परमांसानि खादन्तः क्रव्यादा मांसजीविनः 132c
वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः 133a
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः 133c
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च 134a
रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् 134c
मुदितानां वितृप्तानां तस्मिन्महति वैशसे 135a
समेतानि बहून्यासन्भूतानि च जनाधिप 135c
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः 136a
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः 136c
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो 136e
स निःशेषानरीन्कृत्वा विरराज जनक्षये 137a
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः 137c
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो 138a
दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः 138c
यथैव संसुप्तजने शिबिरे प्राविशन्निशि 139a
तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः 139c
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान् 140a
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो 140c
तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा 141a
पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः 141c
प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान् 141e
एवंविधा हि सा रात्रिः सोमकानां जनक्षये 142a
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा 142c
असंशयं हि कालस्य पर्यायो दुरतिक्रमः 143a
तादृशा निहता यत्र कृत्वास्माकं जनक्षयम् 143c
धृतराष्ट्र उवाच 144
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः 144a
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः 144c
अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ 145a
द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि 145c
सञ्जय उवाच 146
तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन 146a
असान्निध्याद्धि पार्थानां केशवस्य च धीमतः 146c
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम् 147a
न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः 147c
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो 148a
ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् 148c
दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः 148e
पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः 149a
इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम् 149c
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः 150a
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया 150c
इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम् 151a
यदि जीवति नो राजा तस्मै शंसामहे प्रियम् 151c