सञ्जय उवाच 001
स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते 001a
अवतीर्य रथोपस्थाद्दध्यौ सम्प्रयतः स्थितः 001c
द्रौणिरुवाच 002
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् 002a
गिरिशं वरदं देवं भवं भावनमव्ययम् 002c
शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम् 003a
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् 003c
श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् 004a
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् 004c
मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा 005a
सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् 005c
स्तुतं स्तुत्यं स्तूयमानममोघं चर्मवाससम् 006a
विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम् 006c
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च 007a
व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम् 007c
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् 008a
गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् 008c
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् 009a
तनुवाससमत्युग्रमुमाभूषणतत्परम् 009c
परं परेभ्यः परमं परं यस्मान्न विद्यते 010a
इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् 010c
हिरण्यकवचं देवं चन्द्रमौलिविभूषितम् 011a
प्रपद्ये शरणं देवं परमेण समाधिना 011c
इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम् 012a
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् 012c
इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः 013a
दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः 015a
द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः 015c
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः 016a
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा 016c
काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च 017a
महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः 017c
दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत 018a
कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा 018c
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च 019a
हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा 019c
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च 020a
पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः 020c
निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत 021a
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः 021c
प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च 022a
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप 022c
शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च 023a
शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः 023c
जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः 024a
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः 024c
मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः 025a
उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलङ्कृताः 025c
पद्मोत्पलापीडधरास्तथा कुमुदधारिणः 026a
माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः 026c
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः 027a
भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत 027c
पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः 028a
सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः 028c
महापाशोद्यतकरास्तथा लगुडपाणयः 029a
स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः 029c
महासर्पाङ्गदधराश्चित्राभरणधारिणः 029e
रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः 030a
नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च 030c
भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान् 031a
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः 031c
गायमानास्तथैवान्ये नृत्यमानास्तथापरे 032a
लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः 032c
धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः 033a
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः 033c
सुभीमा घोररूपाश्च शूलपट्टिशपाणयः 034a
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः 034c
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा 035a
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः 035c
पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः 036a
चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः 036c
अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः 037a
विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः 037c
महार्हनानामुकुटा मुण्डाश्च जटिलाः परे 038a
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले 038c
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् 039a
ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः 039c
कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः 040a
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः 040c
प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम् 041a
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः 041c
मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः 042a
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् 042c
पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा 043a
चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा 043c
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च 044a
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः 044c
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः 045a
सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः 045c
नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः 046a
सन्नादयन्तस्ते विश्वमश्वत्थामानमभ्ययुः 046c
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः 047a
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः 047c
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः 048a
भीमोग्रपरिघालातशूलपट्टिशपाणयः 048c
घोररूपाः समाजग्मुर्भूतसङ्घाः समन्ततः 048e
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् 049a
तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः 049c
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान् 050a
स्वयमेवात्मनात्मानमुपहारमुपाहरत् 050c
धनूंषि समिधस्तत्र पवित्राणि शिताः शराः 051a
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि 051c
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् 052a
उपहारं महामन्युरथात्मानमुपाहरत् 052c
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् 053a
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः 053c
इममात्मानमद्याहं जातमाङ्गिरसे कुले 054a
अग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् 054c
भवद्भक्त्या महादेव परमेण समाधिना 055a
अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः 055c
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै 056a
गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति 056c
सर्वभूताशय विभो हविर्भूतमुपस्थितम् 057a
प्रतिगृहाण मां देव यद्यशक्याः परे मया 057c
इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम् 058a
सन्त्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत् 058c
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् 059a
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव 059c
सत्यशौचार्जवत्यागैस्तपसा नियमेन च 060a
क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा 060c
यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा 061a
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते 061c
कुर्वता तस्य सम्मानं त्वां च जिज्ञासता मया 062a
पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः 062c
कृतस्तस्यैष सम्मानः पाञ्चालान्रक्षता मया 063a
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् 063c
एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम् 064a
आविवेश ददौ चास्मै विमलं खड्गमुत्तमम् 064c
अथाविष्टो भगवता भूयो जज्वाल तेजसा 065a
वर्ष्मवांश्चाभवद्युद्धे देवसृष्टेन तेजसा 065c
तमदृश्यानि भूतानि रक्षांसि च समाद्रवन् 066a
अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम् 066c