धृतराष्ट्र उवाच 001
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ 001a
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे 001c
सञ्जय उवाच 002
कृतवर्माणमामन्त्र्य कृपं च स महारथम् 002a
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् 002c
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् 003a
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् 003c
वसानं चर्म वैयाघ्रं महारुधिरविस्रवम् 004a
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् 004c
बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः 005a
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् 005c
दंष्ट्राकरालवदनं व्यादितास्यं भयावहम् 006a
नयनानां सहस्रैश्च विचित्रैरभिभूषितम् 006c
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा 007a
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः 007c
तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः 008a
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः 008c
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः 009a
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः 009c
तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम् 010a
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् 010c
द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत् 011a
उदधेरिव वार्योघान्पावको वडवामुखः 011c
अश्वत्थामा तु सम्प्रेक्ष्य ताञ्शरौघान्निरर्थकान् 012a
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव 012c
सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत 013a
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता 013c
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् 014a
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् 014c
ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा 015a
स तदासाद्य भूतं वै विलयं तूलवद्ययौ 015c
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् 016a
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् 016c
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः 017a
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः 017c
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः 018a
अब्रवीदभिसन्तप्तः कृपवाक्यमनुस्मरन् 018c
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः 019a
स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ 019c
शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति 020a
स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते 020c
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा 021a
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च 021c
मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत् 022a
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा 022c
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् 023a
अमार्गेणैवमारभ्य घोरामापदमागतः 023c
तां चापदं घोरतरां प्रवदन्ति मनीषिणः 024a
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते 024c
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह 025a
न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते 025c
मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति 026a
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते 026c
प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः 027a
यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते 027c
तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम् 028a
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन 028c
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् 029a
न चैतदभिजानामि चिन्तयन्नपि सर्वथा 029c
ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः 030a
तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते 030c
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम् 031a
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन 031c
सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम् 032a
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति 032c
कपर्दिनं प्रपद्याथ देवदेवमुमापतिम् 033a
कपालमालिनं रुद्रं भगनेत्रहरं हरम् 033c
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च 034a
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् 034c