कृप उवाच 001
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः 001a
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः 001c
तथैव तावन्मेधावी विनयं यो न शिक्षति 002a
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम् 002c
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः 003a
जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् 003c
अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः 004a
दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम् 004c
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् 005a
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते 005c
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते 006a
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति 006c
तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम् 007a
प्राज्ञाः सम्प्रतिषेधन्ते यथाशक्ति पुनः पुनः 007c
स कल्याणे मतिं कृत्वा नियम्यात्मानमात्मना 008a
कुरु मे वचनं तात येन पश्चान्न तप्यसे 008c
न वधः पूज्यते लोके सुप्तानामिह धर्मतः 009a
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् 009c
ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः 010a
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः 010c
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो 011a
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः 011c
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः 012a
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे 012c
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः 013a
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् 013c
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ 014a
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् 014c
असम्भावितरूपं हि त्वयि कर्म विगर्हितम् 015a
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम 015c
अश्वत्थामोवाच 016
एवमेतद्यथात्थ त्वमनुशास्मीह मातुल 016a
तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः 016c
प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ 017a
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः 017c
कर्णश्च पतिते चक्रे रथस्य रथिनां वरः 018a
उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना 018c
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः 019a
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना 019c
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे 020a
क्रोशतां भूमिपालानां युयुधानेन पातितः 020c
दुर्योधनश्च भीमेन समेत्य गदया मृधे 021a
पश्यतां भूमिपालानामधर्मेण निपातितः 021c
एकाकी बहुभिस्तत्र परिवार्य महारथैः 022a
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः 022c
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः 023a
वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति 023c
एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः 024a
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति 024c
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके 025a
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै 025c
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् 026a
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् 026c
न स जातः पुमाल्ँलोके कश्चिन्न च भविष्यति 027a
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् 027c
सञ्जय उवाच 028
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् 028a
एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान् 028c
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ 029a
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् 029c
एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभ 030a
समदुःखसुखौ चैव नावां शङ्कितुमर्हसि 030c
अश्वत्थामा तु सङ्क्रुद्धः पितुर्वधमनुस्मरन् 031a
ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम् 031c
हत्वा शतसहस्राणि योधानां निशितैः शरैः 032a
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः 032c
तं तथैव हनिष्यामि न्यस्तवर्माणमद्य वै 033a
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा 033c
कथं च निहतः पापः पाञ्चालः पशुवन्मया 034a
शस्त्राहवजितां लोकान्प्राप्नुयादिति मे मतिः 034c
क्षिप्रं सन्नद्धकवचौ सखड्गावात्तकार्मुकौ 035a
समास्थाय प्रतीक्षेतां रथवर्यौ परन्तपौ 035c
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् 036a
तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः 036c
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः 037a
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः 037c
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो 038a
द्वारदेशं तु सम्प्राप्य द्रौणिस्तस्थौ रथोत्तमे 038c