कृप उवाच 001
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत 001a
न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम् 001c
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ 002a
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः 002c
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः 003a
परानभिमुखं यान्तं रथावास्थाय दंशितौ 003c
आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे 004a
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् 004c
शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम् 005a
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् 005c
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद 006a
समेत्य समरे शत्रून्वधिष्यसि न संशयः 006c
न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम् 007a
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः 007c
कृपेण सहितं यान्तं युक्तं च कृतवर्मणा 008a
को द्रौणिं युधि संरब्धं योधयेदपि देवराट् 008c
ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः 009a
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् 009c
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः 010a
सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः 010c
ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् 011a
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् 011c
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् 011e
अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम 012a
अनुयास्याव सहितौ धन्विनौ परतापिनौ 012c
रथिनं त्वरया यान्तं रथावास्थाय दंशितौ 012e
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे 013a
ततः कर्तासि शत्रूणां युध्यतां कदनं महत् 013c
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि 014a
विहरस्व यथा शक्रः सूदयित्वा महासुरान् 014c
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् 015a
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः 015c
मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा 016a
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् 016c
न चाहं समरे तात कृतवर्मा तथैव च 017a
अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित् 017c
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह 018a
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् 018c
सर्वोपायैः सहायास्ते प्रभाते वयमेव हि 019a
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ 019c
एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः 020a
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने 020c
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च 021a
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः 021c
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम् 022a
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् 022c
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् 023a
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति 023c
यथा च निहतः पापैः पिता मम विशेषतः 024a
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति 024c
कथं हि मादृशो लोके मुहूर्तमपि जीवति 025a
द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम् 025c
धृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे 026a
स मे पितृवधाद्वध्यः पाञ्चाला ये च सङ्गताः 026c
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः 027a
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् 027c
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् 028a
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः 028c
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः 029a
शोकं मे वर्धयत्येष वारिवेग इवार्णवम् 029c
एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम् 029e
वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान् 030a
अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल 030c
न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथञ्चन 031a
न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत् 031c
इति मे निश्चिता बुद्धिरेषा साधुमता च मे 031e
वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः 032a
पाण्डवानां च विजयो हृदयं दहतीव मे 032c
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके 033a
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः 033c