सञ्जय उवाच 001
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् 001a
अश्वत्थामा महाराज दुःखशोकसमन्वितः 001c
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा 002a
क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत 002c
पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना 003a
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया 003c
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् 004a
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति 004c
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता 005a
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् 005c
कारणान्तरयोगेन योगे येषां समा मतिः 006a
तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् 006c
तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा 007a
कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते 007c
अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः 008a
चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते 008c
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि 009a
भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो 009c
एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः 010a
प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः 010c
अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः 011a
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम् 011c
व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम् 012a
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् 012c
एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा 013a
भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते 013c
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति 014a
तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका 014c
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः 015a
कर्तुमारभते प्रीतो मरणादिषु कर्मसु 015c
सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः 016a
चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते 016c
उपजाता व्यसनजा येयमद्य मतिर्मम 017a
युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् 017c
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च 018a
वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् 018c
ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम् 019a
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् 019c
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः 020a
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् 020c
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते 021a
मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनुष्ठितः 021c
क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यसंश्रितम् 022a
प्रकुर्यां सुमहत्कर्म न मे तत्साधु सम्मतम् 022c
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे 023a
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि 023c
सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम् 024a
गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः 024c
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः 025a
विमुक्तयुग्यकवचा हर्षेण च समन्विताः 025c
वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च 025e
तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके 026a
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् 026c
तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः 027a
सूदयिष्यामि विक्रम्य मघवानिव दानवान् 027c
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् 028a
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः 028c
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम 028e
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे 029a
पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव 029c
अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च 030a
अर्दयिष्यामि सङ्क्रुद्धो रणे पाण्डुसुतांस्तथा 030c
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् 031a
प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः 031c
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि 032a
गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम् 032c
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि 033a
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् 033c
अद्य पाञ्चालपाण्डूनां शयितानात्मजान्निशि 034a
खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम 034c
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके 035a
कृतकृत्यः सुखी चैव भविष्यामि महामते 035c