कृप उवाच 001
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो 001a
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज 001c
आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः 002a
दैवे पुरुषकारे च परं ताभ्यां न विद्यते 002c
न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम 003a
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः 003c
ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः 004a
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः 004c
पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम् 005a
कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम् 005c
उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम् 006a
व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः 006c
प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते 007a
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी 007c
तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते 008a
प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः 008c
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ 009a
विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि 009c
कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति 010a
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् 010c
उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् 011a
अफलं दृश्यते लोके सम्यगप्युपपादितम् 011c
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः 012a
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते 012c
प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि 013a
अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम् 013c
चेष्टामकुर्वल्ँलभते यदि किञ्चिद्यदृच्छया 014a
यो वा न लभते कृत्वा दुर्दशौ तावुभावपि 014c
शक्नोति जीवितुं दक्षो नालसः सुखमेधते 015a
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः 015c
यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम् 016a
नास्य वाच्यं भवेत्किञ्चित्तत्त्वं चाप्यधिगच्छति 016c
अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः 017a
स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः 017c
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा 018a
स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः 018c
हीनं पुरुषकारेण यदा दैवेन वा पुनः 019a
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् 019c
हीनं पुरुषकारेण कर्म त्विह न सिध्यति 019e
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते 020a
दक्षो दाक्षिण्यसम्पन्नो न स मोघं विहन्यते 020c
सम्यगीहा पुनरियं यो वृद्धानुपसेवते 021a
आपृच्छति च यच्छ्रेयः करोति च हितं वचः 021c
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः 022a
तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते 022c
वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत् 023a
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् 023c
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः 024a
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः 024c
सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना 025a
असमर्थ्य समारब्धो मूढत्वादविचिन्तितः 025c
हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह 026a
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः 026c
पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति 027a
तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः 027c
अन्वावर्तामहि वयं यत्तु तं पापपूरुषम् 028a
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् 028c
अनेन तु ममाद्यापि व्यसनेनोपतापिता 029a
बुद्धिश्चिन्तयतः किञ्चित्स्वं श्रेयो नावबुध्यते 029c
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः 030a
ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् 030c
ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह 031a
उपपृच्छामहे गत्वा विदुरं च महामतिम् 031c
ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम् 032a
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः 032c
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित् 033a
कृते पुरुषकारे च येषां कार्यं न सिध्यति 033c
दैवेनोपहतास्ते तु नात्र कार्या विचारणा 033e