सञ्जय उवाच 001
ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः 001a
उपास्तमयवेलायां शिबिराभ्याशमागताः 001c
विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा 002a
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते 002c
सेनानिवेशमभितो नातिदूरमवस्थिताः 003a
निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः 003c
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् 004a
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् 004c
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः 005a
ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः 005c
नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः 006a
राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः 006c
धृतराष्ट्र उवाच 007
अश्रद्धेयमिदं कर्म कृतं भीमेन सञ्जय 007a
यत्स नागायुतप्राणः पुत्रो मम निपातितः 007c
अवध्यः सर्वभूतानां वज्रसंहननो युवा 008a
पाण्डवैः समरे पुत्रो निहतो मम सञ्जय 008c
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः 009a
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः 009c
अद्रिसारमयं नूनं हृदयं मम सञ्जय 010a
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा 010c
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति 011a
न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे 011c
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय 012a
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् 012c
आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च सञ्जय 013a
कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् 013c
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि सञ्जय 014a
येन पुत्रशतं पूर्णमेकेन निहतं मम 014c
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः 015a
अकुर्वता वचस्तेन मम पुत्रेण सञ्जय 015c
अधर्मेण हते तात पुत्रे दुर्योधने मम 016a
कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय 016c
सञ्जय उवाच 017
गत्वा तु तावका राजन्नातिदूरमवस्थिताः 017a
अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् 017c
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः 018a
सूर्यास्तमयवेलायामासेदुः सुमहद्वनम् 018c
नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम् 019a
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् 019c
नानातोयसमाकीर्णं तडागैरुपशोभितम् 020a
पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् 020c
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः 021a
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः 021c
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः 022a
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् 022c
तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः 023a
उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो 023c
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे 024a
सर्वस्य जगतो धात्री शर्वरी समपद्यत 024c
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम् 025a
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः 025c
ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः 026a
दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः 026c
रात्रिञ्चराणां सत्त्वानां निनादोऽभूत्सुदारुणः 027a
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी 027c
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः 028a
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् 028c
तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः 029a
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् 029c
निद्रया च परीताङ्गा निषेदुर्धरणीतले 030a
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः 030c
ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ 031a
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले 031c
तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ 031e
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत 032a
नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् 032c
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना 033a
वीक्षां चक्रे महाबाहुस्तद्वनं घोरदर्शनम् 033c
वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम् 034a
अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम् 034c
तत्र काकसहस्राणि तां निशां पर्यणामयन् 035a
सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः 035c
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः 036a
सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम् 036c
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् 037a
सुदीर्घघोणानखरं सुपर्णमिव वेगिनम् 037c
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः 038a
न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत 038c
सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः 039a
सुप्ताञ्जघान सुबहून्वायसान्वायसान्तकः 039c
केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह 040a
चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः 040c
क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः 041a
तेषां शरीरावयवैः शरीरैश्च विशां पते 041c
न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत् 041e
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् 042a
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः 042c
तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि 043a
तद्भावकृतसङ्कल्पो द्रौणिरेको व्यचिन्तयत् 043c
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे 044a
शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः 044c
नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः 045a
बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः 045c
राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया 045e
पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम् 046a
न्यायतो युध्यमानस्य प्राणत्यागो न संशयः 046c
छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान् 046e
तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत् 047a
तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः 047c
यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम् 048a
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता 048c
निन्दितानि च सर्वाणि कुत्सितानि पदे पदे 049a
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः 049c
अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः 050a
श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः 050c
परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः 051a
प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम् 051c
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् 052a
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् 052c
इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे 053a
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् 053c
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः 054a
सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च 054c
नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः 055a
स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत् 055c
हतो दुर्योधनो राजा एकवीरो महाबलः 056a
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह 056c
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः 057a
पातितो भीमसेनेन एकादशचमूपतिः 057c
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् 058a
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता 058c
विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च 059a
धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् 059c
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः 060a
अनिलेनेरितो घोरो दिशः पूरयतीव हि 060c
अश्वानां हेषमाणानां गजानां चैव बृंहताम् 061a
सिंहनादश्च शूराणां श्रूयते सुमहानयम् 061c
दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् 062a
रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः 062c
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् 063a
वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे 063c
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः 064a
निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् 064c
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः 065a
यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे 065c
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते 066a
व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् 066c