सञ्जय उवाच 001
वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् 001a
हतशिष्टास्ततो राजन्कौरवाणां महारथाः 001c
विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः 002a
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 002c
त्वरिता जवनैरश्वैरायोधनमुपागमन् 002e
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् 003a
प्रभग्नं वायुवेगेन महाशालं यथा वने 003c
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् 004a
महागजमिवारण्ये व्याधेन विनिपातितम् 004c
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् 005a
यदृच्छया निपतितं चक्रमादित्यगोचरम् 005c
महावातसमुत्थेन संशुष्कमिव सागरम् 006a
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् 006c
रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम् 007a
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः 007c
यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् 007e
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् 008a
सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा 008c
ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम् 009a
मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः 009c
अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसन्निधौ 010a
दुर्योधनं च सम्प्रेक्ष्य सर्वे भूमावुपाविशन् 010c
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् 011a
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् 011c
न नूनं विद्यतेऽसह्यं मानुष्ये किञ्चिदेव हि 012a
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः 012c
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् 013a
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने 013c
दुःशासनं न पश्यामि नापि कर्णं महारथम् 014a
नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ 014c
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथञ्चन 015a
लोकानां च भवान्यत्र शेते पांसुषु रूषितः 015c
एष मूर्धावसिक्तानामग्रे गत्वा परन्तपः 016a
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् 016c
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव 017a
सा च ते महती सेना क्व गता पार्थिवोत्तम 017c
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे 018a
यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः 018c
अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते 019a
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् 019c
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः 020a
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः 020c
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् 021a
कृपादीन्स तदा वीरान्सर्वानेव नराधिपः 021c
ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते 022a
विनाशः सर्वभूतानां कालपर्यायकारितः 022c
सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः 023a
पृथिवीं पालयित्वाहमेतां निष्ठामुपागतः 023c
दिष्ट्या नाहं परावृत्तो युद्धे कस्याञ्चिदापदि 024a
दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः 024c
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता 025a
दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः 025c
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् 026a
स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम् 026c
मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे 027a
यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः 027c
मन्यमानः प्रभावं च कृष्णस्यामिततेजसः 028a
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् 028c
स मया समनुप्राप्तो नास्मि शोच्यः कथञ्चन 029a
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः 029c
यतितं विजये नित्यं दैवं तु दुरतिक्रमम् 029e
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः 030a
तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम् 030c
तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम् 031a
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये 031c
स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च 032a
बाष्पविह्वलया वाचा राजानमिदमब्रवीत् 032c
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा 033a
न तथा तेन तप्यामि यथा राजंस्त्वयाद्य वै 033c
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो 034a
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च 034c
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः 035a
सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम् 035c
अनुज्ञां तु महाराज भवान्मे दातुमर्हति 035e
इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः 036a
मनसः प्रीतिजननं कृपं वचनमब्रवीत् 036c
आचार्य शीघ्रं कलशं जलपूर्णं समानय 036e
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः 037a
कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् 037c
तमब्रवीन्महाराज पुत्रस्तव विशां पते 038a
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् 038c
सेनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् 038e
राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः 039a
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः 039c
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः 040a
द्रौणिं राज्ञो नियोगेन सेनापत्येऽभ्यषेचयत् 040c
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् 041a
प्रययौ सिंहनादेन दिशः सर्वा विनादयन् 041c
दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः 042a
तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् 042c
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप 043a
शोकसंविग्नमनसश्चिन्ताध्यानपराभवन 043c