धृतराष्ट्र उवाच 001
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः 001a
शौटीरमानी पुत्रो मे कान्यभाषत सञ्जय 001c
अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु 002a
व्यसनं परमं प्राप्तः किमाह परमाहवे 002c
सञ्जय उवाच 003
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप 003a
राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते 003c
भग्नसक्थो नृपो राजन्पांसुना सोऽवगुण्ठितः 004a
यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश 004c
केशान्नियम्य यत्नेन निःश्वसन्नुरगो यथा 005a
संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम् 005c
बाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः 006a
प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् 006c
गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् 006e
भीष्मे शान्तनवे नाथे कर्णे चास्त्रभृतां वरे 007a
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे 007c
अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि 008a
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः 008c
एकादशचमूभर्ता सोऽहमेतां दशां गतः 009a
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते 009c
आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति सङ्गरे 010a
यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः 010c
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः 011a
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति 011c
इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम् 012a
येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः 012c
का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम् 013a
को वा समयभेत्तारं बुधः सम्मन्तुमर्हति 013c
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः 014a
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः 014c
किं नु चित्रमतस्त्वद्य भग्नसक्थस्य यन्मम 015a
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः 015c
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु 016a
एवं कुर्यान्नरो यो हि स वै सञ्जय पूजितः 016c
अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे 017a
तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनान्मम 017c
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा 018a
मूर्ध्नि स्थितममित्राणां जीवतामेव सञ्जय 018c
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम् 019a
अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया 019c
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् 020a
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया 020c
मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः 021a
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया 021c
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः 022a
आजानेयैस्तथा यातं को नु स्वन्ततरो मया 022c
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम् 023a
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया 023c
दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः 024a
दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यं गता विभो 024c
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम् 025a
निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया 025c
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः 026a
दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः 026c
सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा 027a
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः 027c
अश्वत्थामा महाभागः कृतवर्मा च सात्वतः 028a
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम 028c
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः 029a
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ 029c
वातिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः 030a
अधर्माद्भीमसेनेन निहतोऽहं यथा रणे 030c
सोऽहं द्रोणं स्वर्गगतं शल्यकर्णावुभौ तथा 031a
वृषसेनं महावीर्यं शकुनिं चापि सौबलम् 031c
जलसन्धं महावीर्यं भगदत्तं च पार्थिवम् 032a
सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम् 032c
दुःशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा 033a
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ 033c
एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः 034a
पृष्ठतोऽनुगमिष्यामि सार्थहीन इवाध्वगः 034c
कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम 035a
रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति 035c
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम 036a
गान्धारीसहितः क्रोशन्कां गतिं प्रतिपत्स्यते 036c
नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा 037a
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना 037c
यदि जानाति चार्वाकः परिव्राड्वाग्विशारदः 038a
करिष्यति महाभागो ध्रुवं सोऽपचितिं मम 038c
समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते 039a
अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् 039c
ततो जनसहस्राणि बाष्पपूर्णानि मारिष 040a
प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश 040c
ससागरवना घोरा पृथिवी सचराचरा 041a
चचालाथ सनिर्ह्रादा दिशश्चैवाविलाभवन् 041c
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन् 042a
व्यवहारं गदायुद्धे पार्थिवस्य च घातनम् 042c
तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत 043a
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् 043c