जनमेजय उवाच 001
किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः 001a
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम् 001c
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति 002a
न च तं लब्धवान्कामं ततो युद्धमभूदिदम् 002c
निहतेषु तु योधेषु हते दुर्योधने तथा 003a
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि 003c
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे 004a
किं नु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः 004c
न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे 005a
यत्रागमदमेयात्मा स्वयमेव जनार्दनः 005c
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम 006a
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये 006c
वैशम्पायन उवाच 007
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव 007a
तत्तेऽहं सम्प्रवक्ष्यामि यथावद्भरतर्षभ 007c
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे 008a
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् 008c
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत 009a
युधिष्ठिरं महाराज महद्भयमथाविशत् 009c
चिन्तयानो महाभागां गान्धारीं तपसान्विताम् 010a
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् 010c
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा 011a
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् 011c
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् 012a
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति 012c
कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यति 013a
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् 013c
एवं विचिन्त्य बहुधा भयशोकसमन्वितः 014a
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत 014c
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् 015a
अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत 015c
प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे 016a
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन 016c
त्वया देवासुरे युद्धे वधार्थममरद्विषाम् 017a
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः 017c
साह्यं तथा महाबाहो दत्तमस्माकमच्युत 018a
सारथ्येन च वार्ष्णेय भवता यद्धृता वयम् 018c
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे 019a
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः 019c
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् 020a
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः 020c
वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणा 021a
ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत 021c
गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव 022a
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता 022c
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति 023a
तस्याः प्रसादनं वीर प्राप्तकालं मतं मम 023c
कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम् 024a
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम 024c
तत्र मे गमनं प्राप्तं रोचते तव माधव 025a
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम 025c
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः 026a
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः 026c
क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसि 027a
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति 027c
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् 028a
कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा 028c
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः 029a
आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम् 029c
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः 030a
न्यवेदयद्रथं सज्जं केशवाय महात्मने 030c
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः 031a
जगाम हास्तिनपुरं त्वरितः केशवो विभुः 031c
ततः प्रायान्महाराज माधवो भगवान्रथी 032a
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् 032c
प्रविश्य नगरं वीरो रथघोषेण नादयन् 033a
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् 033c
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् 034a
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् 034c
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः 035a
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः 035c
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः 036a
पाणिमालम्ब्य राज्ञः स सस्वरं प्ररुरोद ह 036c
स मुहूर्तमिवोत्सृज्य बाष्पं शोकसमुद्भवम् 037a
प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि 037c
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः 037e
न तेऽस्त्यविदितं किञ्चिद्भूतभव्यस्य भारत 038a
कालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो 038c
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः 039a
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत 039c
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः 040a
द्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः 040c
अज्ञातवासचर्या च नानावेशसमावृतैः 041a
अन्ये च बहवः क्लेशास्त्वशक्तैरिव नित्यदा 041c
मया च स्वयमागम्य युद्धकाल उपस्थिते 042a
सर्वलोकस्य सान्निध्ये ग्रामांस्त्वं पञ्च याचितः 042c
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः 043a
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् 043c
भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च 044a
द्रोणेन च सपुत्रेण विदुरेण च धीमता 044c
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि 044e
कालोपहतचित्तो हि सर्वो मुह्यति भारत 045a
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते 045c
किमन्यत्कालयोगाद्धि दिष्टमेव परायणम् 046a
मा च दोषं महाराज पाण्डवेषु निवेशय 046c
अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् 047a
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप 047c
एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम् 048a
असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति 048c
कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम् 049a
गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् 049c
एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम् 050a
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ 050c
जानासि च महाबाहो धर्मराजस्य या त्वयि 051a
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः 051c
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् 052a
दह्यते स्म दिवारात्रं न च शर्माधिगच्छति 052c
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् 053a
स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति 053c
ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति 054a
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम् 054c
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः 055a
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् 055c
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते 056a
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे 056c
जानामि च यथा राज्ञि सभायां मम सन्निधौ 057a
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् 057c
उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम् 057e
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः 058a
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः 058c
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे 059a
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः 059c
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन 059e
शक्ता चासि महाभागे पृथिवीं सचराचराम् 060a
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् 060c
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् 061a
एवमेतन्महाबाहो यथा वदसि केशव 061c
आधिभिर्दह्यमानाया मतिः सञ्चलिता मम 062a
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन 062c
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव 063a
त्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर 063c
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा 064a
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह 064c
तत एनां महाबाहुः केशवः शोककर्शिताम् 065a
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः 065c
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः 066a
द्रौणेः सङ्कल्पितं भावमन्वबुध्यत केशवः 066c
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च 067a
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् 067c
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः 068a
द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः 068c
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता 068e
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् 069a
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् 069c
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय 070a
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन 070c
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः 070e
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् 071a
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः 071c
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह 072a
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप 072c
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् 073a
तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत् 073c