सञ्जय उवाच 001
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः 001a
शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः 001c
पाण्डवान्गच्छतश्चापि शिबिरं नो विशां पते 002a
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा 002c
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः 003a
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत 003c
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् 004a
दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने 004c
गतोत्सवं पुरमिव हृतनागमिव ह्रदम् 005a
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् 005c
तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः 006a
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः 006c
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः 007a
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः 007c
ततो गाण्डीवधन्वानमभ्यभाषत केशवः 008a
स्थितः प्रियहिते नित्यमतीव भरतर्षभ 008c
अवरोपय गाण्डीवमक्षय्यौ च महेषुधी 009a
अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम 009c
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ 010a
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः 010c
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् 011a
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः 011c
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि 012a
कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः 012c
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः 013a
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते 013c
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः 014a
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः 014c
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो 015a
अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् 015c
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च 016a
गोविन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना 016c
किमेतन्महदाश्चर्यमभवद्यदुनन्दन 017a
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे 017c
वासुदेव उवाच 018
अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन 018a
मदधिष्ठितत्वात्समरे न विशीर्णः परन्तप 018c
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा 019a
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि 019c
सञ्जय उवाच 020
ईषदुत्स्मयमानश्च भगवान्केशवोऽरिहा 020a
परिष्वज्य च राजानं युधिष्ठिरमभाषत 020c
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः 021a
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः 021c
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ 022a
मुक्ता वीरक्षयादस्मात्सङ्ग्रामान्निहतद्विषः 022c
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत 022e
उपयातमुपप्लव्यं सह गाण्डीवधन्वना 023a
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः 023c
एष भ्राता सखा चैव तव कृष्ण धनञ्जयः 024a
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो 024c
तव चैवं ब्रुवाणस्य तथेत्येवाहमब्रुवम् 024e
स सव्यसाची गुप्तस्ते विजयी च नरेश्वर 025a
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः 025c
मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात् 025e
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः 026a
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् 026c
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन 027a
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः 027c
भवतस्तु प्रसादेन सङ्ग्रामे बहवो जिताः 028a
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः 028c
तथैव च महाबाहो पर्यायैर्बहुभिर्मया 029a
कर्मणामनुसन्तानं तेजसश्च गतिः शुभा 029c
उपप्लव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् 030a
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः 030c
इत्येवमुक्ते ते वीराः शिबिरं तव भारत 031a
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसञ्चयान् 031c
रजतं जातरूपं च मणीनथ च मौक्तिकान् 032a
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च 032c
दासीदासमसङ्ख्येयं राज्योपकरणानि च 032e
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ 033a
उदक्रोशन्महेष्वासा नरेन्द्र विजितारयः 033c
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च 034a
अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा 034c
अथाब्रवीन्महाराज वासुदेवो महायशाः 035a
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः 035c
तथेत्युक्त्वा च ते सर्वे पाण्डवाः सात्यकिस्तथा 036a
वासुदेवेन सहिता मङ्गलार्थं ययुर्बहिः 036c
ते समासाद्य सरितं पुण्यामोघवतीं नृप 037a
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः 037c
ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम् 038a
स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् 038c
दारुकं रथमारोप्य येन राजाम्बिकासुतः 038e
तमूचुः सम्प्रयास्यन्तं सैन्यसुग्रीववाहनम् 039a
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् 039c
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः 040a
आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम् 040c