धृतराष्ट्र उवाच 001
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे 001a
पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय 001c
सञ्जय उवाच 002
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे 002a
सिंहेनेव महाराज मत्तं वनगजं वने 002c
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः 003a
पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने 003c
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे 004a
नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा 004c
धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन् 005a
दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः 005c
चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः 006a
अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः 006c
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् 007a
कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम् 007c
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे 008a
त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः 008c
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः 009a
दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् 009c
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् 010a
अशक्यमेतदन्येन सम्पादयितुमीदृशम् 010c
कुञ्जरेणेव मत्तेन वीर सङ्ग्राममूर्धनि 011a
दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया 011c
सिंहेन महिषस्येव कृत्वा सङ्गरमद्भुतम् 012a
दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ 012c
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् 013a
मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा 013c
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च 014a
भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः 014c
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः 015a
तथा त्वां निहतामित्रं वयं नन्दाम भारत 015c
दुर्योधनवधे यानि रोमाणि हृषितानि नः 016a
अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत 016c
इत्यब्रुवन्भीमसेनं वातिकास्तत्र सङ्गताः 016e
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह 017a
ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः 017c
न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाः 018a
असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः 018c
तदैवैष हतः पापो यदैव निरपत्रपः 019a
लुब्धः पापसहायश्च सुहृदां शासनातिगः 019c
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः 020a
पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान् 020c
नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः 021a
किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा 021c
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः 022a
दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः 022c
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः 023a
अमर्षवशमापन्न उदतिष्ठद्विशां पते 023c
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् 024a
दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत् 024c
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत् 025a
क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत 025c
प्राणान्तकरणीं घोरां वेदनामविचिन्तयन् 026a
दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् 026c
कंसदासस्य दायाद न ते लज्जास्त्यनेन वै 027a
अधर्मेण गदायुद्धे यदहं विनिपातितः 027c
ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता 028a
किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः 028c
घातयित्वा महीपालानृजुयुद्धान्सहस्रशः 029a
जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा 029c
अहन्यहनि शूराणां कुर्वाणः कदनं महत् 030a
शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः 030c
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते 031a
आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मम 031c
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् 032a
पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः 032c
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च 033a
घटोत्कचे व्यंसयथाः कस्त्वत्तः पापकृत्तमः 033c
छिन्नबाहुः प्रायगतस्तथा भूरिश्रवा बली 034a
त्वया निसृष्टेन हतः शैनेयेन दुरात्मना 034c
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया 035a
व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै 035c
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः 036a
पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीर्नृणाम् 036c
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे 037a
ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् 037c
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः 038a
स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः 038c
वासुदेव उवाच 039
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः 039a
सगणः ससुहृच्चैव पापमार्गमनुष्ठितः 039c
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ 040a
कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः 040c
याच्यमानो मया मूढ पित्र्यमंशं न दित्ससि 041a
पाण्डवेभ्यः स्वराज्यार्धं लोभाच्छकुनिनिश्चयात् 041c
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः 042a
प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते 042c
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला 043a
तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रपः 043c
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना 044a
निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे 044c
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने 045a
यातेषु मृगयां तेषु तृणबिन्दोरथाश्रमे 045c
अभिमन्युश्च यद्बाल एको बहुभिराहवे 046a
त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे 046c
दुर्योधन उवाच 047
अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरा 047a
मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया 047c
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम् 048a
तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया 048c
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः 049a
ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया 049c
ससुहृत्सानुबन्धश्च स्वर्गं गन्ताहमच्युत 050a
यूयं विहतसङ्कल्पाः शोचन्तो वर्तयिष्यथ 050c
सञ्जय उवाच 051
अस्य वाक्यस्य निधने कुरुराजस्य भारत 051a
अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् 051c
अवादयन्त गन्धर्वा जगुश्चाप्सरसां गणाः 052a
सिद्धाश्च मुमुचुर्वाचः साधु साध्विति भारत 052c
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखः 053a
व्यराजतामलं चैव नभो वैडूर्यसन्निभम् 053c
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः 054a
दुर्योधनस्य पूजां च दृष्ट्वा व्रीडामुपागमन् 054c
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते 055a
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च 055c
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः 056a
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः 056c
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः 057a
ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे 057c
उपाया विहिता ह्येते मया तस्मान्नराधिपाः 058a
अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् 058c
ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि 059a
न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् 059c
तथैवायं गदापाणिर्धार्तराष्ट्रो गतक्लमः 060a
न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना 060c
न च वो हृदि कर्तव्यं यदयं घातितो नृपः 061a
मिथ्यावध्यास्तथोपायैर्बहवः शत्रवोऽधिकाः 061c
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः 062a
सद्भिश्चानुगतः पन्थाः स सर्वैरनुगम्यते 062c
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे 063a
साश्वनागरथाः सर्वे विश्रमामो नराधिपाः 063c
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह 064a
पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत् 064c
ततः प्राध्मापयञ्शङ्खान्पाञ्चजन्यं च माधवः 065a
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः 065c