सञ्जय उवाच 001
तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम् 001a
प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः 001c
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् 002a
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः 002c
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् 003a
पतितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् 003c
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् 004a
यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते 004c
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि 004e
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् 005a
शिरश्च राजसिंहस्य पादेन समलोडयत् 005c
तथैव क्रोधसंरक्तो भीमः परबलार्दनः 006a
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप 006c
येऽस्मान्पुरोऽपनृत्यन्त पुनर्गौरिति गौरिति 007a
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति 007c
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना 008a
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् 008c
सोऽवाप्य वैरस्य परस्य पारं वृकोदरः प्राह शनैः प्रहस्य 009a
युधिष्ठिरं केशवसृञ्जयांश्च धनञ्जयं माद्रवतीसुतौ च 009c
रजस्वलां द्रौपदीमानयन्ये ये चाप्यकुर्वन्त सदस्यवस्त्राम् 010a
तान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रान्रणे हतांस्तपसा याज्ञसेन्याः 010c
ये नः पुरा षण्ढतिलानवोचन्क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः 011a
ते नो हताः सगणाः सानुबन्धाः कामं स्वर्गं नरकं वा व्रजामः 011c
पुनश्च राज्ञः पतितस्य भूमौ स तां गदां स्कन्धगतां निरीक्ष्य 012a
वामेन पादेन शिरः प्रमृद्य दुर्योधनं नैकृतिकेत्यवोचत् 012c
हृष्टेन राजन्कुरुपार्थिवस्य क्षुद्रात्मना भीमसेनेन पादम् 013a
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन्धर्मात्मानः सोमकानां प्रबर्हाः 013c
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् 014a
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् 014c
मा शिरोऽस्य पदा मर्दीर्मा धर्मस्तेऽत्यगान्महान् 015a
राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ 015c
विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः 016a
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया 016c
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः 017a
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि 017c
दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस्तथागतम् 018a
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् 018c
नूनमेतद्बलवता धात्रादिष्टं महात्मना 019a
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम 019c
आत्मनो ह्यपराधेन महद्व्यसनमीदृशम् 020a
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत 020c
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा 021a
पुत्रान्पौत्रांस्तथाचार्यांस्ततोऽसि निधनं गतः 021c
तवापराधादस्माभिर्भ्रातरस्ते महारथाः 022a
निहता ज्ञातयश्चान्ये दिष्टं मन्ये दुरत्ययम् 022c
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः 023a
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः 023c
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः 024a
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः 024c