सञ्जय उवाच 001
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः 001a
अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम् 001c
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः 002a
कस्य वा को गुणो भूयानेतद्वद जनार्दन 002c
वासुदेव उवाच 003
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः 003a
कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात् 003c
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति 004a
अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम् 004c
मायया निर्जिता देवैरसुरा इति नः श्रुतम् 005a
विरोचनश्च शक्रेण मायया निर्जितः सखे 005c
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः 005e
प्रतिज्ञातं तु भीमेन द्यूतकाले धनञ्जय 006a
ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम् 006c
सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः 007a
मायाविनं च राजानं माययैव निकृन्ततु 007c
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति 008a
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः 008c
पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मे 009a
धर्मराजापराधेन भयं नः पुनरागतम् 009c
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् 010a
जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम् 010c
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः 010e
अबुद्धिरेषा महती धर्मराजस्य पाण्डव 011a
यदेकविजये युद्धं पणितं कृतमीदृशम् 011c
सुयोधनः कृती वीर एकायनगतस्तथा 011e
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः 012a
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु 012c
पुनरावर्तमानानां भग्नानां जीवितैषिणाम् 013a
भेतव्यमरिशेषाणामेकायनगता हि ते 013c
सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम् 014a
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने 014c
को न्वेष संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत् 015a
अपि वो निर्जितं राज्यं न हरेत सुयोधनः 015c
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः 016a
चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया 016c
एवं चेन्न महाबाहुरन्यायेन हनिष्यति 017a
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति 017c
धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः 018a
प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत् 018c
गृह्य सञ्ज्ञां ततो भीमो गदया व्यचरद्रणे 019a
मण्डलानि विचित्राणि यमकानीतराणि च 019c
दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च 020a
व्यचरत्पाण्डवो राजन्नरिं सम्मोहयन्निव 020c
तथैव तव पुत्रोऽपि गदामार्गविशारदः 021a
व्यचरल्लघु चित्रं च भीमसेनजिघांसया 021c
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते 022a
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ 022c
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ 023a
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ 023c
मण्डलानि विचित्राणि चरतोर्नृपभीमयोः 024a
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः 024c
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे 025a
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः 025c
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव 026a
गदानिर्घातसंह्रादः प्रहाराणामजायत 026c
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम् 027a
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ 027c
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ 028a
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे 028c
तयोः समभवद्युद्धं घोररूपमसंवृतम् 029a
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् 029c
व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ 030a
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव 030c
जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसम्प्लुतौ 031a
ददृशाते हिमवति पुष्पिताविव किंशुकौ 031c
दुर्योधनेन पार्थस्तु विवरे सम्प्रदर्शिते 032a
ईषदुत्स्मयमानस्तु सहसा प्रससार ह 032c
तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः 033a
अवाक्षिपद्गदां तस्मै वेगेन महता बली 033c
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते 034a
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि 034c
मोक्षयित्वा प्रहारं तं सुतस्तव स सम्भ्रमात् 035a
भीमसेनं च गदया प्राहरत्कुरुसत्तमः 035c
तस्य विष्यन्दमानेन रुधिरेणामितौजसः 036a
प्रहारगुरुपाताच्च मूर्छेव समजायत 036c
दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे 037a
धारयामास भीमोऽपि शरीरमतिपीडितम् 037c
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे 038a
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः 038c
ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम् 039a
वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान् 039c
तमापतन्तं सम्प्रेक्ष्य संरब्धममितौजसम् 040a
मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ 040c
अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः 041a
इयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम् 041c
अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम् 042a
अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत् 042c
सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः 043a
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः 043c
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा 044a
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ 044c
स पपात नरव्याघ्रो वसुधामनुनादयन् 045a
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते 045c
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च 046a
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता 046c
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् 047a
महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी 047c
पपात चोल्का महती पतिते पृथिवीपतौ 047e
तथा शोणितवर्षं च पांसुवर्षं च भारत 048a
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते 048c
यक्षाणां राक्षसानां च पिशाचानां तथैव च 049a
अन्तरिक्षे महानादः श्रूयते भरतर्षभ 049c
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् 050a
जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम् 050c
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह 051a
मुमुचुस्ते महानादं तव पुत्रे निपातिते 051c
भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् 052a
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते 052c
बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः 053a
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप 053c
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च 054a
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते 054c
ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम 055a
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन् 055c
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन् 056a
दुर्योधने तदा राजन्पतिते तनये तव 056c
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह 057a
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ 057c
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा 058a
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत 058c
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः 059a
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् 059c