सञ्जय उवाच 001
ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम् 001a
प्रत्युद्ययावदीनात्मा वेगेन महता नदन् 001c
समापेततुरानद्य शृङ्गिणौ वृषभाविव 002a
महानिर्घातघोषश्च सम्प्रहारस्तयोरभूत् 002c
अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम् 003a
जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव 003c
रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ 004a
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ 004c
तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे 005a
खद्योतसङ्घैरिव खं दर्शनीयं व्यरोचत 005c
तथा तस्मिन्वर्तमाने सङ्कुले तुमुले भृशम् 006a
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ 006c
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ 007a
अभ्यहारयतां तत्र सम्प्रगृह्य गदे शुभे 007c
तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ 008a
बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ 008c
अपारवीर्यौ सम्प्रेक्ष्य प्रगृहीतगदावुभौ 009a
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः 009c
प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ 010a
संशयः सर्वभूतानां विजये समपद्यत 010c
समागम्य ततो भूयो भ्रातरौ बलिनां वरौ 011a
अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति 011c
यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् 012a
ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् 012c
आविध्यतो गदां तस्य भीमसेनस्य संयुगे 013a
शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत 013c
आविध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् 014a
गदामलघुवेगां तां विस्मितः सम्बभूव ह 014c
चरंश्च विविधान्मार्गान्मण्डलानि च भारत 015a
अशोभत तदा वीरो भूय एव वृकोदरः 015c
तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे 016a
मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः 016c
अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा 017a
मण्डलानि विचित्राणि स्थानानि विविधानि च 017c
गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च 018a
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् 018c
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् 019a
परावर्तनसंवर्तमवप्लुतमथाप्लुतम् 019c
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ 019e
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् 020a
वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ 020c
विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः 021a
गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली 021c
दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत 022a
सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत 022c
तथा तु चरतस्तस्य भीमस्य रणमूर्धनि 023a
दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् 023c
आहतस्तु तदा भीमस्तव पुत्रेण भारत 024a
आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन् 024c
इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् 025a
ददृशुस्ते महाराज भीमसेनस्य तां गदाम् 025c
आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः 026a
समुद्यम्य गदां घोरां प्रत्यविध्यदरिन्दमः 026c
गदामारुतवेगेन तव पुत्रस्य भारत 027a
शब्द आसीत्सुतुमुलस्तेजश्च समजायत 027c
स चरन्विविधान्मार्गान्मण्डलानि च भागशः 028a
समशोभत तेजस्वी भूयो भीमात्सुयोधनः 028c
आविद्धा सर्ववेगेन भीमेन महती गदा 029a
सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना 029c
आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः 030a
अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत 030c
गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः 031a
भयं विवेश पाण्डून्वै सर्वानेव ससोमकान् 031c
तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः 032a
गदाभ्यां सहसान्योन्यमाजघ्नतुररिन्दमौ 032c
तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा 033a
अशोभेतां महाराज शोणितेन परिप्लुतौ 033c
एवं तदभवद्युद्धं घोररूपमसंवृतम् 034a
परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव 034c
दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः 035a
चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे 035c
तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् 036a
अभिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् 036c
सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः 037a
प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव 037c
वेगवत्या तया तत्र भीमसेनप्रमुक्तया 038a
निपतन्त्या महाराज पृथिवी समकम्पत 038c
तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे 039a
मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् 039c
स सव्यं मण्डलं राजन्नुद्भ्राम्य कृतनिश्चयः 040a
आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया 040c
तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः 041a
नाकम्पत महाराज तदद्भुतमिवाभवत् 041c
आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् 042a
यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् 042c
ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् 043a
दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः 043c
तं प्रहारमसम्भ्रान्तो लाघवेन महाबलः 044a
मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् 044c
सा तु मोघा गदा राजन्पतन्ती भीमचोदिता 045a
चालयामास पृथिवीं महानिर्घातनिस्वना 045c
आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः 046a
गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत् 046c
वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः 047a
ताडयामास सङ्क्रुद्धो वक्षोदेशे महाबलः 047c
गदयाभिहतो भीमो मुह्यमानो महारणे 048a
नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव 048c
तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः 049a
भृशोपहतसङ्कल्पा नहृष्टमनसोऽभवन् 049c
स तु तेन प्रहारेण मातङ्ग इव रोषितः 050a
हस्तिवद्धस्तिसङ्काशमभिदुद्राव ते सुतम् 050c
ततस्तु रभसो भीमो गदया तनयं तव 051a
अभिदुद्राव वेगेन सिंहो वनगजं यथा 051c
उपसृत्य तु राजानं गदामोक्षविशारदः 052a
आविध्यत गदां राजन्समुद्दिश्य सुतं तव 052c
अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा 053a
स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् 053c
तस्मिंस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते 054a
उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते 054c
तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः 055a
अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत 055c
उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन् 056a
दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत 056c
ततः स भरतश्रेष्ठो गदापाणिरभिद्रवत् 057a
प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे 057c
स महात्मा महात्मानं भीमं भीमपराक्रमः 058a
अताडयच्छङ्खदेशे स चचालाचलोपमः 058c
स भूयः शुशुभे पार्थस्ताडितो गदया रणे 059a
उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः 059c
ततो गदां वीरहणीमयस्मयीं प्रगृह्य वज्राशनितुल्यनिस्वनाम् 060a
अताडयच्छत्रुममित्रकर्शनो बलेन विक्रम्य धनञ्जयाग्रजः 060c
स भीमसेनाभिहतस्तवात्मजः पपात सङ्कम्पितदेहबन्धनः 061a
सुपुष्पितो मारुतवेगताडितो महावने साल इवावघूर्णितः 061c
ततः प्रणेदुर्जहृषुश्च पाण्डवाः समीक्ष्य पुत्रं पतितं क्षितौ तव 062a
ततः सुतस्ते प्रतिलभ्य चेतनां समुत्पपात द्विरदो यथा ह्रदात् 062c
स पार्थिवो नित्यममर्षितस्तदा महारथः शिक्षितवत्परिभ्रमन् 063a
अताडयत्पाण्डवमग्रतः स्थितं स विह्वलाङ्गो जगतीमुपास्पृशत् 063c
स सिंहनादान्विननाद कौरवो निपात्य भूमौ युधि भीममोजसा 064a
बिभेद चैवाशनितुल्यतेजसा गदानिपातेन शरीररक्षणम् 064c
ततोऽन्तरिक्षे निनदो महानभूद्दिवौकसामप्सरसां च नेदुषाम् 065a
पपात चोच्चैरमरप्रवेरितं विचित्रपुष्पोत्करवर्षमुत्तमम् 065c
ततः परानाविशदुत्तमं भयं समीक्ष्य भूमौ पतितं नरोत्तमम् 066a
अहीयमानं च बलेन कौरवं निशम्य भेदं च दृढस्य वर्मणः 066c
ततो मुहूर्तादुपलभ्य चेतनां प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः 067a
धृतिं समालम्ब्य विवृत्तलोचनो बलेन संस्तभ्य वृकोदरः स्थितः 067c