वैशम्पायन उवाच 001
ततो वाग्युद्धमभवत्तुमुलं जनमेजय 001a
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् 001c
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी 002a
एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः 002c
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम् 003a
गदामादाय वेगेन पदातिः प्रस्थितो रणम् 003c
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः 004a
गदामुद्यम्य यो याति किमन्यद्भागधेयतः 004c
अहो दुःखं महत्प्राप्तं पुत्रेण मम सञ्जय 005a
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः 005c
सञ्जय उवाच 006
स मेघनिनदो हर्षाद्विनदन्निव गोवृषः 006a
आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान् 006c
भीममाह्वयमाने तु कुरुराजे महात्मनि 007a
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत 007c
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च 008a
बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः 008c
महास्वनाः सनिर्घातास्तुमुला रोमहर्षणाः 009a
पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलम् 009c
राहुश्चाग्रसदादित्यमपर्वणि विशां पते 010a
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा 010c
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करवर्षिणः 011a
गिरीणां शिखराण्येव न्यपतन्त महीतले 011c
मृगा बहुविधाकाराः सम्पतन्ति दिशो दश 012a
दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः 012c
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः 013a
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः 013c
उदपानगताश्चापो व्यवर्धन्त समन्ततः 014a
अशरीरा महानादाः श्रूयन्ते स्म तदा नृप 014c
एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः 015a
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् 015c
नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः 016a
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम् 016c
सुयोधने कौरवेन्द्रे खाण्डवे पावको यथा 016e
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् 017a
निहत्य गदया पापमिमं कुरुकुलाधमम् 017c
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि 018a
हत्वेमं पापकर्माणं गदया रणमूर्धनि 018c
अद्यास्य शतधा देहं भिनद्मि गदयानया 019a
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् 019c
सर्पोत्सर्गस्य शयने विषदानस्य भोजने 020a
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि 020c
सभायामवहासस्य सर्वस्वहरणस्य च 021a
वर्षमज्ञातवासस्य वनवासस्य चानघ 021c
अद्यान्तमेषां दुःखानां गन्ता भरतसत्तम 022a
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः 022c
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः 023a
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् 023c
अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः 024a
प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले 024c
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् 025a
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् 025c
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् 026a
अवातिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् 026c
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् 027a
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह 027c
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः 028a
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते 028c
द्रौपदी च परिक्लिष्टा सभायां यद्रजस्वला 029a
द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च 029c
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् 030a
विराटनगरे चैव योन्यन्तरगतैरिव 030c
तत्सर्वं यातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते 030e
त्वत्कृतेऽसौ हतः शेते शरतल्पे प्रतापवान् 031a
गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना 031c
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् 032a
वैराग्नेरादिकर्ता च शकुनिः सौबलो हतः 032c
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः 033a
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः 033c
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः 034a
त्वामद्य निहनिष्यामि गदया नात्र संशयः 034c
इत्येवमुच्चै राजेन्द्र भाषमाणं वृकोदरम् 035a
उवाच वीतभी राजन्पुत्रस्ते सत्यविक्रमः 035c
किं कत्थितेन बहुधा युध्यस्व त्वं वृकोदर 036a
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम 036c
नैव दुर्योधनः क्षुद्र केनचित्त्वद्विधेन वै 037a
शक्यस्त्रासयितुं वाचा यथान्यः प्राकृतो नरः 037c
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम 038a
त्वया सह गदायुद्धं त्रिदशैरुपपादितम् 038c
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते 039a
वाणी सम्पद्यतामेषा कर्मणा मा चिरं कृथाः 039c
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् 040a
राजानः सोमकाश्चैव ये तत्रासन्समागताः 040c
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः 041a
भूयो धीरं मनश्चक्रे युद्धाय कुरुनन्दनः 041c
तं मत्तमिव मातङ्गं तलतालैर्नराधिपाः 042a
भूयः संहर्षयां चक्रुर्दुर्योधनममर्षणम् 042c
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः 043a
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः 043c
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् 044a
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम् 044c