वैशम्पायन उवाच 001
एवं तदभवद्युद्धं तुमुलं जनमेजय 001a
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् 001c
रामं सन्निहितं दृष्ट्वा गदायुद्ध उपस्थिते 002a
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय 002c
सञ्जय उवाच 003
रामसान्निध्यमासाद्य पुत्रो दुर्योधनस्तव 003a
युद्धकामो महाबाहुः समहृष्यत वीर्यवान् 003c
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत 004a
प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत् 004c
समन्तपञ्चकं क्षिप्रमितो याम विशां पते 005a
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः 005c
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने 006a
सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति 006c
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः 007a
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः 007c
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् 008a
पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह 008c
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् 009a
अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् 009c
वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः 009e
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः 010a
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् 010c
ततः शङ्खनिनादेन भेरीणां च महास्वनैः 011a
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः 011c
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते 012a
गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम् 012c
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् 013a
तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन् 013c
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् 014a
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः 014c
अवबद्धशिरस्त्राणः सङ्ख्ये काञ्चनवर्मभृत् 015a
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव 015c
वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनावुभौ 016a
संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ 016c
रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ 017a
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ 017c
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ 018a
दहन्तौ लोचनै राजन्परस्परवधैषिणौ 018c
सम्प्रहृष्टमना राजन्गदामादाय कौरवः 019a
सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् 019c
ततो दुर्योधनो राजा गदामादाय वीर्यवान् 020a
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् 020c
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् 021a
आह्वयामास नृपतिं सिंहः सिंहं यथा वने 021c
तावुद्यतगदापाणी दुर्योधनवृकोदरौ 022a
संयुगे स्म प्रकाशेते गिरी सशिखराविव 022c
तावुभावभिसङ्क्रुद्धावुभौ भीमपराक्रमौ 023a
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः 023c
उभौ सदृशकर्माणौ यमवासवयोरिव 024a
तथा सदृशकर्माणौ वरुणस्य महाबलौ 024c
वासुदेवस्य रामस्य तथा वैश्रवणस्य च 025a
सदृशौ तौ महाराज मधुकैटभयोर्युधि 025c
उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः 026a
तथैव कालस्य समौ मृत्योश्चैव परन्तपौ 026c
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ 027a
वाशितासङ्गमे दृप्तौ शरदीव मदोत्कटौ 027c
मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ 028a
उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव 028c
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिन्दमौ 029a
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ 029c
सिंहाविव दुराधर्षौ गदायुद्धे परन्तपौ 030a
नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ 030c
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ 031a
लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ 031c
रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ 032a
ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ 032c
व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ 033a
जहृषाते महाबाहू सिंहौ केसरिणाविव 033c
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ 034a
ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ 034c
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् 035a
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ 035c
उभौ परमसंहृष्टावुभौ परमसम्मतौ 036a
सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ 036c
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ 037a
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ 037c
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् 038a
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् 038c
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः 039a
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः 039c
ततः समुपविष्टं तत्सुमहद्राजमण्डलम् 040a
विराजमानं ददृशे दिवीवादित्यमण्डलम् 040c
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः 041a
उपविष्टो महाराज पूज्यमानः समन्ततः 041c
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः 042a
नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः 042c
तौ तथा तु महाराज गदाहस्तौ दुरासदौ 043a
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ 043c
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुङ्गवौ 044a
उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे 044c