वैशम्पायन उवाच 001
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः 001a
आश्रमं सुमहद्दिव्यमगमज्जनमेजय 001c
मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसङ्कुलम् 002a
चिरिबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम् 002c
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् 003a
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् 003c
ते तु सर्वे महात्मानमूचू राजन्हलायुधम् 004a
शृणु विस्तरतो राम यस्यायं पूर्वमाश्रमः 004c
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् 005a
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः 005c
अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी 006a
योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी 006c
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः 007a
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी 007c
सा तु प्राप्य परं योगं गता स्वर्गमनुत्तमम् 008a
भुक्त्वाश्रमेऽश्वमेधस्य फलं फलवतां शुभा 008c
गता स्वर्गं महाभागा पूजिता नियतात्मभिः 008e
अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुङ्गवः 009a
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः 009c
स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहेऽचलम् 009e
नातिदूरं ततो गत्वा नगं तालध्वजो बली 010a
पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः 010c
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः 011a
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् 011c
हलायुधस्तत्र चापि दत्त्वा दानं महाबलः 012a
आप्लुतः सलिले शीते तस्माच्चापि जगाम ह 012c
आश्रमं परमप्रीतो मित्रस्य वरुणस्य च 012e
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक्प्रीतिमाप्नुवन् 013a
तं देशं कारपचनाद्यमुनायां जगाम ह 013c
स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च 014a
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः 014c
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः 014e
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः 015a
आजगामाथ तं देशं यत्र रामो व्यवस्थितः 015c
जटामण्डलसंवीतः स्वर्णचीरी महातपाः 016a
हेमदण्डधरो राजन्कमण्डलुधरस्तथा 016c
कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम् 017a
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः 017c
प्रकर्ता कलहानां च नित्यं च कलहप्रियः 018a
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः 018c
प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम् 019a
देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून्प्रति 019c
ततोऽस्याकथयद्राजन्नारदः सर्वधर्मवित् 020a
सर्वमेव यथावृत्तमतीतं कुरुसङ्क्षयम् 020c
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा 021a
किमवस्थं तु तत्क्षत्रं ये च तत्राभवन्नृपाः 021c
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन 022a
विस्तरश्रवणे जातं कौतूहलमतीव मे 022c
नारद उवाच 023
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा 023a
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः 023c
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् 024a
एते चान्ये च बहवस्तत्र तत्र महाबलाः 024c
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै 025a
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः 025c
अहतांस्तु महाबाहो शृणु मे तत्र माधव 026a
धार्तराष्ट्रबले शेषाः कृपो भोजश्च वीर्यवान् 026c
अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः 026e
दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु 027a
ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः 027c
शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा 028a
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् 028c
स तुद्यमानो बलवान्वाग्भी राम समन्ततः 029a
उत्थितः प्राग्घ्रदाद्वीरः प्रगृह्य महतीं गदाम् 029c
स चाप्युपगतो युद्धं भीमेन सह साम्प्रतम् 030a
भविष्यति च तत्सद्यस्तयो राम सुदारुणम् 030c
यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् 031a
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे 031c
वैशम्पायन उवाच 032
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् 032a
सर्वान्विसर्जयामास ये तेनाभ्यागताः सह 032c
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः 032e
सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् 033a
ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत् 033c
विप्राणां सन्निधौ श्लोकमगायदिदमच्युतः 033e
सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः 034a
सरस्वतीं प्राप्य दिवं गता जनाः सदा स्मरिष्यन्ति नदीं सरस्वतीम् 034c
सरस्वती सर्वनदीषु पुण्या सरस्वती लोकसुखावहा सदा 035a
सरस्वतीं प्राप्य जनाः सुदुष्कृताः सदा न शोचन्ति परत्र चेह च 035c
ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् 036a
हयैर्युक्तं रथं शुभ्रमातिष्ठत परन्तपः 036c
स शीघ्रगामिना तेन रथेन यदुपुङ्गवः 037a
दिदृक्षुरभिसन्प्राप्तः शिष्ययुद्धमुपस्थितम् 037c