ऋषय ऊचुः 001
प्रजापतेरुत्तरवेदिरुच्यते सनातना राम समन्तपञ्चकम् 001a
समीजिरे यत्र पुरा दिवौकसो वरेण सत्रेण महावरप्रदाः 001c
पुरा च राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा 002a
प्रकृष्टमेतत्कुरुणा महात्मना ततः कुरुक्षेत्रमितीह पप्रथे 002c
राम उवाच 003
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना 003a
एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः 003c
ऋषय ऊचुः 004
पुरा किल कुरुं राम कृषन्तं सततोत्थितम् 004a
अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् 004c
किमिदं वर्तते राजन्प्रयत्नेन परेण च 005a
राजर्षे किमभिप्रेतं येनेयं कृष्यते क्षितिः 005c
कुरुरुवाच 006
इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो 006a
ते गमिष्यन्ति सुकृताल्ँलोकान्पापविवर्जितान् 006c
अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः 007a
राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् 007c
आगम्यागम्य चैवैनं भूयो भूयोऽवहस्य च 008a
शतक्रतुरनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह 008c
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः 009a
ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् 009c
तच्छ्रुत्वा चाब्रुवन्देवाः सहस्राक्षमिदं वचः 010a
वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते 010c
यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः 011a
अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति 011c
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् 012a
अलं खेदेन भवतः क्रियतां वचनं मम 012c
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः 013a
युधि वा निहताः सम्यगपि तिर्यग्गता नृप 013c
ते स्वर्गभाजो राजेन्द्र भवन्त्विति महामते 014a
तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह 014c
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना 015a
जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः 015c
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा 016a
शक्रेण चाप्यनुज्ञातं पुण्यं प्राणान्विमुञ्चताम् 016c
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः 017a
कुरुक्षेत्रे निबद्धां वै तां शृणुष्व हलायुध 017c
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः 018a
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् 018c
सुरर्षभा ब्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः 019a
इष्ट्वा महार्हैः क्रतुभिर्नृसिंह सन्न्यस्य देहान्सुगतिं प्रपन्नाः 019c
तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य 020a
एतत्कुरुक्षेत्रसमन्तपञ्चकं प्रजापतेरुत्तरवेदिरुच्यते 020c
शिवं महत्पुण्यमिदं दिवौकसां सुसम्मतं स्वर्गगुणैः समन्वितम् 021a
अतश्च सर्वेऽपि वसुन्धराधिपा हता गमिष्यन्ति महात्मनां गतिम् 021c