जनमेजय उवाच 09051001
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा 09051001a
किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् 09051001c
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् 09051002a
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता 09051002c
वैशम्पायन उवाच 09051003
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः 09051003a
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः 09051003c
मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः 09051003e
तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः 09051004a
जगाम त्रिदिवं राजन्सन्त्यज्येह कलेवरम् 09051004c
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा 09051005a
महता तपसोग्रेण कृत्वाश्रममनिन्दिता 09051005c
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा 09051006a
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप 09051006c
सा पित्रा दीयमानापि भर्त्रे नैच्छदनिन्दिता 09051007a
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत 09051007c
ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम् 09051008a
पितृदेवार्चनरता बभूव विजने वने 09051008c
सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता 09051009a
वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता 09051009c
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् 09051010a
चकार गमने बुद्धिं परलोकाय वै तदा 09051010c
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् 09051011a
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे 09051011c
एवं हि श्रुतमस्माभिर्देवलोके महाव्रते 09051012a
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः 09051012c
तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि 09051013a
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः 09051013c
इत्युक्ते चास्या जग्राह पाणिं गालवसम्भवः 09051014a
ऋषिः प्राक्शृङ्गवान्नाम समयं चेदमब्रवीत् 09051014c
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने 09051015a
यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह 09051015c
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा 09051016a
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः 09051016c
सा रात्रावभवद्राजंस्तरुणी देववर्णिनी 09051017a
दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना 09051017c
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना 09051018a
उवास च क्षपामेकां प्रभाते साब्रवीच्च तम् 09051018c
यस्त्वया समयो विप्र कृतो मे तपतां वर 09051019a
तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् 09051019c
सानुज्ञाताब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः 09051020a
वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः 09051020c
चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत् 09051021a
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः 09051021c
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता 09051021e
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् 09051022a
समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् 09051022c
साधयित्वा तदात्मानं तस्याः स गतिमन्वयात् 09051023a
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः 09051023c
एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत् 09051023e
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः 09051024a
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तप 09051024c
शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा 09051024e
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः 09051025a
पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम् 09051025c
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो 09051026a
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् 09051026c